पृष्ठम्:काव्यसंग्रहः.pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ पदाङ्कदूतः । दृष्टिं नैव त्वदुपरि करिष्यत्ययं चण्डरमिः खेदाशङ्की सरसिजसखस्त्वताम्भोरुहस्य ॥ २७ ॥ एतेन स्यान्मधुपुरगतिः केन मे पकिलोऽभूत् पन्था नन्दब्रजकुलभुवां लोचनाम्भोभिरुचैः नो वा शुष्को हरिविहरजोत्तापितोपीन्दुवक्त्रे नित्योत्पत्तेर्नयनपयसां वाक्यमेतन्निरस्तं ॥ २८ ॥ अस्ताभिस्तरणितनया पीनतां नैव लब्धा गोपीभर्तुर् विरहदहनैः प्रत्युत क्षीणतांच | नोचेदेवं सलिलतरसा गोकुले मास्तु किन्तु प्रस्थानन्ते किस मधुपुरे निर्विरोधं क्रमाक ॥ २८ ॥ क्षीणैवास्ते तरणितनया वस्तुतस्त्वद्दियोगे का वा पीना भवति वचनं कस्यचिनेति युक्तं । गोपस्त्रीणां नयनसलिलैर वर्तते सा विशीर्णा अन्ये नन्दब्रजपुरजना नूनमत्यर्थकं यत् ॥ ३० ॥ सामग्री चेन्न फलविरहो व्याप्तिरेवेति तत्वं तत्वं गोपीनयनसलिले केवलेप्यस्ति मैवं । उत्कण्ठायां हृदि न कुरुते कारणानां सहस्रं लक्षं वापि क्षणमपि यतः पीवरत्वं जनानां ॥ ३१ ॥ तस्मात्तस्या विरतिरथवा हेतुरन्याडशोऽस्या न स्यादेव क्वचिदपि फलं कारणासन्निधाने । नष्टे हेतौ प्रभवति कुतः कार्यमित्यव्ययुक्तं यागेऽपूर्वादिव जनकतादारतस्तस्य सिया ॥ ३२ ॥ by Google Digi zed by