पृष्ठम्:काव्यसंग्रहः.pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदाजदूतः । उक्तप्रायं तरणितनयामागयोस्तत्कथायाम् आस्ते को वा अगति भवतां भीतिहेतुः क्रमाङ्ग । किंच स्वान्ते क्षणमपि भवत्सङ्गमे याति दूरं भीतिर्मृत्योरपि किमशनिं लोकरीत्या दधासि ॥ २२ ॥ येनारूढं विषधरशिरो भूरि वक्तव्यमन्यत् किंवाकारि स्तनगिरिवरारोहणंच श्रुतश्च । उत्पन्नस्य प्रियतमपदा तेन भोतिस्तवास्ते को वा ब्रूयादिति हि सदृशं कारणेनैव कार्यं ॥ २३ ॥ ज्ञातं ज्ञातं कुलिशसदृशं चिह्नमेतन वज्रं नोचेदेवं जनयति कथं लोचनप्रीतिधारां । दूरस्थंच ग्लपयति मनो निखनो यस्य तत्स्यान् नेत्रप्रीतिप्रदमिति वचो न श्रुतं क्वापि केन ॥ २४ ॥ आस्ते चैवं नवजलधरो यं विलोक्य प्रमोदान् नृत्यन्त्युचैर विषधरभुजो निस्वनोप्यस्य भीमः । मिथ्यैवायं यदवधि मया वीक्षितस्तादृशोयं कन्दर्यो मां तदवधि दहत्येव वाणैरसयैः ॥ २५ ॥ कोशस्यान्ते चरणयुगलं झालयन् सूरजायां यायाः किंच क्षणमपि तरोर्मूलमासाद्य तिष्ठेः । उत्कृष्ठं यज्जनयति पदं सेवकानां जनानां पद्भ्यां हीनं तदिति जगतां प्रत्ययः कूर्मलोम ॥ २६ ॥ आरुह्यास्मत्हृदयमथवा गच्छतुङ्गं तुरङ्गं सौरं तेजः सजलजलदच्छायया वारणीयं । Digized by Google ४०५