पृष्ठम्:काव्यसंग्रहः.pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०४ पदाकदूतः । तस्माज्जाते त्वयि मधुरिपोरंघ्रिपद्माडिचिचः किं दीनानामुपरि करुणालिङ्गितो दृष्टिपातः ॥ १६॥ एकं चिह्नं हरिपदभवं पनगस्योत्तमाने तादृक् शोभामपि खगपपेर निर्भयत्वं चकार । पिण्डेनान्यत्तरणिरभवद् घोरसंसारसिन्धी ध्यातं तादृक् त्वमपि महतां जन्मविश्वोपकृत्यै ॥ १७ ॥ उत्फुलानामतिसुरभयः सौरभैरम्बुजानाम् अम्भोलेशैस्तरणिदुहितुः शीतलैः शीतलाश्च । अद्यावश्यं सततगतयः स्वैरमाधूतव वर्तिष्यन्ते भवदभिमतप्रीतये लांचनाग्र ॥ १८ ॥ व्यक्तव्येयं चिरपरिचिता अन्मभूमीति वुया मा खिद्यस्व त्रिभुवनजनचाणहेतोः क्रमाङ्क | किं न त्याज्यं भवति महतां चेत् परस्योपकारो वाराणस्या मुनिरपि गतो दक्षिणाशामगस्त्यः ॥ १८ ॥ कर्पूरादेः सलिलमभवत् वैतरण्यम्बुतुल्यं वाक्यागम्यं नदति कठिनं कोकिलः षट्पदोपि । वृन्दारण्ये किरति गरलं दुःसहं शीतस्मिर् नैतद्वाच्यं सदपि सखे सन्निधौ केशवस्य ॥ २० ॥ प्रस्थानन्ते कुलिशकलनानिञ्चितं पण्डिताग्रैश् चित्तेऽस्माकं तदपि रमते याहि याहीति वाणी । अप्रामाण्यं जनयति सदा नन्दसूनोर्वियोगो व्याप्यज्ञानाद् व्रजकुलभुवां व्यापकस्यापि सिद्धौ ॥ २१ ॥ Digi: red by Google