पृष्ठम्:काव्यसंग्रहः.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदाङ्गदूतः T: 1 आस्ते नूनं यदुषु मथुरामण्डले चक्रपाणिः कूजङ्गैरमलकमखैराकुले गोकुले वा । तस्माद् गच्छेरतिलघुपुरीं तांच जन्मावनीवद् वालक्रीडां रचयति मुहुर्यच तचानुरागः ॥ ११ ॥ आस्तां मध्ये तरखतनया भीषला भूरिनकैर आवर्ताद्यैरपि नयनभयदैस्तां तरिष्यस्यवभ्यं । संसाराब्धिं तरति सहसा यत् क्षणं चिन्तयित्वा तस्यासाध्यं भवति किमहो पारयानं तटिन्याः ॥ १२ ॥ दृष्ट्वैव त्वां विदितमधुना पूर्ववत् पद्मनाभं प्राप्यावश्यं विरजलधेः पारमासादयिष्ये । मोदिष्ये च क्षणमपि रहेरास्यचन्द्रामृतेन प्राप्तप्राणा सुरभिकुसुमामोदिते मंजुकुत्रे ॥ १३ ॥ सम्पर्कात्ते तरणितनयातीरसोपानन्दं राशः पन्थास्तलमपि तरोराचितं पद्मरागैः । शोभां यास्यत्यचिरमतुलां स्वीयकार्यानुरोधाद् उक्तैरेतैर्मुहुरपि सखे तच न स्थेयमेव ॥ १४ ॥ ये वीक्षन्ते सततमधुना श्रीरंघ्रिपद्मं मञ्जीराद्यैः कनककलितैर्भूषणैर्भूषितंच । तेषां च त्वं किमु न भविता लोचनप्रीतिहेतुर् व्यक्तैरेतैः कुलिशकमलस्यन्दनाङ्गादिचिहैः ॥ १५ ॥ यस्यासङ्गादलभत तनुं मानुष गौतमस्त्री ध्यानेनैव प्रथितमहिमश्रीपतिं नारदादिः । Google Digi: zed by ४०३