पृष्ठम्:काव्यसंग्रहः.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ पदाङ्गदूतः । पश्यन्तस्त्वां नयनसुभगं साश्रुधाराक्षियुग्मं यास्यन्त्युच्चैः पुलकिततनु प्रेमधारामुदारां ॥ ५ ॥ चेतः प्रस्थापित मणुतया दौत्यकर्मोपयक्तं तत्रैवास्तेमुरहरपदस्पर्शमासाद्य मुग्धं । आकांक्षेयं तनुगुरुतया नैव गन्तुं मसर्या कोऽन्यो गच्छेहद मधुपुरीं गोपिकानां हिताय ॥ ६ ॥ आगन्तव्यं जटिति मथुरामण्डलाहोपकान्ते शान्तेति त्वं भव मधुरिपुः प्रस्थितः प्रोच्य चेदं । वाक्यं तच्च श्रवणमभवत्तेन मेने क्रमाक प्रायः सत्यं मतमिदमही कारणं कार्यमेव ॥ ७ ॥ तूर्णं तस्यां गमनमुचितं तेन मे सहियोग व्याधेः शान्तिस्तव च भविता तत्पुरीस्पर्शपुण्यं । वृन्दारण्याद्भवतु सुकृतं भूरि तेनैव किंस्यान् नाकांक्षा किं भवति विपुलश्रीमतोऽर्थान्तरेषु ॥ ८ ॥ अक्रूरस्य ब्रजकुलवधूप्राणपानोद्यतस्य प्रीतिर्भूयो भवतु भवतो दर्शनातेन किंवा । कार्यासिद्धिर् भवति यदो माहशां दुःखहेतुर् नैवौन्नत्यं सकलभुवनप्रार्थनीयं रिपूणां ॥ ८ ॥ सन्त्येवास्मत्कलुषकरिणः कोटिशो वारणीयास् ते प्यस्माभिः स्मृतिकरवरेणाकुशं ते गृहीम्वा । स्वच्छन्देन ब्रज मधुपुरीं कोभवेदा विरोधी गोपीभर्तुर्विरहजलधिं गोपकन्यास्तरन्तु ॥ १० ॥ hight red by Google