सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
मेघदूताख्यं ।
२९
मेघदूताख्यं


उत्पश्यामि त्वयि तटगते स्निग्धभिन्नांजनाभे
सद्यः कृतद्विरददशनच्छेदगौरस्य तस्य ।
शोभामद्रेस्तिमितनयनप्रेक्षणीयां भविवीम् मं
श्रंशन्यस्ते सति हलभृतो मेचके वाससीव ॥ ६१ ॥
तस्मिन् हित्वा भुजगवलयं शम्भुना दत्तहस्ता
क्रीडाशैले यदि च विचरेत् पादचारेण गौरी ।
भङ्गी भक्त्य विरचितवपुस्तम्भितान्तर्जलौघः
सोपानत्वं व्रज पदसुखस्पर्शमारोहखेषु ॥१२॥
तत्रावश्यं वलयकुलिशोदघट्टनोगीर्णतोयं
नेष्यन्ति त्वां सुरयुवतयो यन्त्रधाराहत्वं ।
ताभ्यो मोक्षस्तव यदि सखे धर्मलब्धस्य न स्यात्
क्रीडालोला: श्रवणपरुषैर्गर्जितै र्भाययेस्ताः ॥ ६३ ॥
हेमाम्भोजप्रसवि सलिलं मानसस्याददानः
कुर्वन् कामात् क्षणमुखपटप्रीतिमैरावतस्य ।
धुम्वन् वातैः सजलपृषतैः कल्पवृक्षांशुकानि
छायाभिन्नस्फटिकविशदं निर्विशेस्तं नगेन्द्रं ॥ ६४ ॥
तस्योत्सङ्गे प्रणयिनइव श्रस्तगङ्गादुकूलां
न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।
यावः काले वहति सलिलोहारमुचे र्विमानैर्
मुक्ताजालग्रथितमलकं कामिनीवाव्भ्रवृन्दं ॥ ६५ ॥
वन्तं ललितवनिताः सेन्द्रचापं सचित्रा:
ताय प्रहतमुरजाः स्निग्धगम्भीरघोषं ।