पृष्ठम्:काव्यसंग्रहः.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इंसदूतः | विनीतप्रहादस्त्वमिह परमकूरचरित प्रयुक्तो यहूयः परहृदयभेदं जनयसि ॥ १३१ ॥ यदात्मानं दर्पादगणितगुरुर्खामन मुदा मनोवाद्ये नाट्वं त्वयि वलितया कल्पितवती । प्रपेदे तस्येदं फलमुचितमेव प्रियसखी विदूरे यत् क्षिप्ता व्यसनकुलपाशैर्निगडिता ॥ १३२ | इयं नाथ क्रूरा भृगुपतनमाकांक्षति ततो यदस्यां काठिन्यं तव समुचितं तद्भृगुपतेः । इयन्ते दुर्योधालतिरथ भवदिस्मृतिप ३९८ यती यातः साक्षाङ्गुरुरपि स नन्दीश्वरपतिः ॥ १३३॥ निरानन्दा गावश्चिरमुपहता दूषणकुखैः खरायन्ते सद्यो रघुतिलक गोवर्द्धनतटाः । विराधत्वं घोषो ब्रजति भवदीयप्रवसनाद् इदानीं मारीचः स्फुटमिह नरीनर्ति परितः ॥ १३४ ॥ प्रपन्नः कालोऽयं पुनरुदयितुं रासभजनैर् विलासिनद्यापि स्फुटमनपराधा वयमपि । वितन्वानः कांतिं वपुषि शरदाकाशवमितां कथं न त्वं सीरध्वज भजसि वृन्दावनमिदं ॥ १३५ ॥ न रागं सर्वज्ञ क्वचिदपि विधत्ते नरपतिं मुहुर्हेष्टि द्रोष्हं कलयति वलादिष्टविधये । चिरं ध्यानासक्ता निवसति सदासौ गतरतिस् तथाप्यस्यां इंडो सदयहृदयस्त्वं न दयसे ॥ १३६ ॥ higit red by Google