पृष्ठम्:काव्यसंग्रहः.pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इंसदूतः । गृहीत्वा गोविन्दं जलधिहृदयानन्दन सखे सुखेन श्रीसृन्दावनपरिसरे नन्दतु भवान् । कथं वा ते गोष्ठं भवतु दयितं इन्त बलवान् यदेतस्मिन् वेण्णोर्जयति चिरसौभाग्यमहिमा | १२६ | इति प्रेमोहारप्रवणमनुनीय क्रमवशात् परीवारान् भ्रातर्निशमयति चानूरमथने । पुनः कोपोडिनप्रणयचटुलं तस्य निकटे कथामाचक्षीथा दशभिरवतारैर् विलसितां ॥ १२७ ॥ ग्रहीतुं त्वां प्रेमामिषपरिदृतं चित्तवडिशं महामीन क्षिप्रं न्यधित रसपूरे मम सखी । विवेकाख्यं छित्वा गुणमथ तद्ग्रासि भवता हताशेयं किंवा शिव शिव विधातुं प्रभवति ॥ १२८॥ वराकीयं दृष्ट्वा सुभग वपुषो विभ्रमभरं तवाभ्यणें भेजे परमकुतुकोलासितमतिः । तिरोधाय स्वाङ्गं प्रकटयसि यत्त्वं कठिनतां तदैतत् किं न स्यात्तव कमठमूर्तेः समुचितं ॥ १२८ ॥ सदा कंसाराते स्फुरति चिरमद्यापि भवतः स्फुटं क्रोडाकारे वपुषि निविडप्रेमलहरी । यतः सा सैरिन्ध्री मलयरुहपङ्कप्रणयिणी त्वया क्रोडी चक्रे परमरभसादात्मदयिता ॥ १३० ॥ चिरादन्तर्भूता नरहरिमयी मूर्तिरभितस् तदीयो व्यापारस्तव हि न ययौ विस्मृतिपथं । Digi: zed by Google