पृष्ठम्:काव्यसंग्रहः.pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इंसदूतः । भिया संभ्रान्ताचं यदि विचकर्ष त्वयि वलाद् गृहीत्वा विभ्रश्यन्नवशिखिशिखं गोकुलपतिं ॥ १२० ॥ ततः सम्भाषेथाः श्रुतिमकरमुद्रामिति मुदा भवत्यां कर्तव्यः किमिति कुशलप्रश्नजडिमा | रुचिस्मेरा या त्वं रचयसि वलाचुम्बनकलाम् अपाङ्गेन स्पृष्टा सखि मुररिपोर् गण्डकुहरे ॥ १२१ ॥ निवासस्ते देवि श्रवनलतिकायामिति धिया प्रयत्नात्वामेव प्रणयहृदया यामि शरणं । परोक्षं वृष्णीनां निभृतनिभृतं कर्णकुहरे हरेः काकून्मिश्रां कथय सखि राधाविधुरतां ॥ १२२ ॥ परीरम्भं प्रेम्मा मम सविनयं कौस्तुभमणो ब्रुवाणः कुर्वीथाः पतगवर विज्ञापनमिदं । अगाधा राधायामपि तवं सखे विस्मृतिरभूत् कथं वा कल्याणं वहति तरलेहि प्रणयिता ॥ १२३ ॥ मुहुः कूजत्काचीमणिवलयमञ्जीरमुरली वरालम्बी भ्राम्ययुवतिकलगीतैः सुरमणे । स किं साक्षाद्भावी पुनरपि हरेस्ताण्डरसैर् अमन्दः कालिन्दीपुलिनभुवि तौर्यत्रिकभरः ॥ १२४ ॥ नवीनस्त्वं कम्बो पशुपरमणीभिः परिचयं न धत्से राधाया गुणगरिमगन्धेपि न कृती । तथापि त्वां याचे हृदयनिहितं दोहदमहं वहन्ते हि लान्ते प्रणयमवदातप्रकृतयः ॥ १२५ ॥ Digi: zed by Google