पृष्ठम्:काव्यसंग्रहः.pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हंसदूतः । असिन्दे कालिन्दीकमलसुरभी कुज्जवसतेर् वसन्त वासन्तीनवपरिमलोहारचिकुरां । त्वदुत्सङ्गे लीनां मदमुकुलिताक्षों पुनरिमां कदाहं सेविष्ये किसलयकलापव्यजनिनी ॥११५॥ भृतानन्दां हृम्दावनपरिसरे शारद निशा विलासोल्लासेन चथितकवरीस्फुल्लकुसुमां । तव स्कन्धोपान्ते विनिहितभुजावलरिमहं कदा कुञ्जे लीना रहसि विहसिष्यामि सुमुखीं ॥ ११६ ॥ विदूरादा कुसुममुपयामि त्वमधुना पुरस्तीरे तीरे कलय तुलसीपलवमिदं । इति व्याजादेनां विदितभवदीयस्थितिरक्षं कदा कुत्रे गोपीरमण गमयिष्यायि समये ॥ ११७ ॥ इति श्रीकंसारेः पदकमलयोर् गोकुलकथां निवेद्य प्रत्येकं भज परिजनेषु प्रणयितां । निजाने कादम्बीसहचर वहम्मण्डन तया स यात्युचैः प्रेमप्रवणमनुजग्राह भगवान् ॥ ११८॥ मिलङ्ग्रङ्गों हंसीरमण वनमालां प्रथमतो मुदा क्षेमं पृच्छनिदमुपहरेथा मम वचः । चिरं कंसारातेरुरसि सहवासप्रणयिनों किमेनामेणाक्षीं गुणवति विसस्मार भवति ॥ ११९ ॥ इदं किं वा हन्त स्मरसि रसिके खण्डनरुषा परीताजी गोवर्द्धनगिरिनितम्बे मम सखी । Thigt red by Google