सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८५
हंसदूतः

असिन्दे कालिन्दीकमलसुरभी कुज्जवसतेर्
वसन्त वासन्तीनवपरिमलोहारचिकुरां ।
त्वदुत्सङ्गे लीनां मदमुकुलिताक्षों पुनरिमां
कदाहं सेविष्ये किसलयकलापव्यजनिनी ॥११५॥
भृतानन्दां हृम्दावनपरिसरे शारद निशा
विलासोल्लासेन चथितकवरीस्फुल्लकुसुमां ।
तव स्कन्धोपान्ते विनिहितभुजावलरिमहं
कदा कुञ्जे लीना रहसि विहसिष्यामि सुमुखीं ॥ ११६ ॥
विदूरादा कुसुममुपयामि त्वमधुना
पुरस्तीरे तीरे कलय तुलसीपलवमिदं ।
इति व्याजादेनां विदितभवदीयस्थितिरक्षं
कदा कुत्रे गोपीरमण गमयिष्यायि समये ॥ ११७ ॥
इति श्रीकंसारेः पदकमलयोर् गोकुलकथां
निवेद्य प्रत्येकं भज परिजनेषु प्रणयितां ।
निजाने कादम्बीसहचर वहम्मण्डन तया
स यात्युचैः प्रेमप्रवणमनुजग्राह भगवान् ॥ ११८॥
मिलङ्ग्रङ्गों हंसीरमण वनमालां प्रथमतो
मुदा क्षेमं पृच्छनिदमुपहरेथा मम वचः ।
चिरं कंसारातेरुरसि सहवासप्रणयिनों
किमेनामेणाक्षीं गुणवति विसस्मार भवति ॥ ११९ ॥
इदं किं वा हन्त स्मरसि रसिके खण्डनरुषा
परीताजी गोवर्द्धनगिरिनितम्बे मम सखी ।