पृष्ठम्:काव्यसंग्रहः.pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९४ हंसदूतः । परीहासारम्मी प्रियसखि समालम्बितमुखीं प्रपेदे चुम्बाय स्फुरदधरविम्बस्तव सखा ॥ १०८ ॥ ततोहं धम्मिले स्थगितमुरलीका सखि शनैर् अलीकामण भ्रमदविरलवरुदचलं । कचालष्टिक्रीडाकमपरिचिते चौर्यचरिते हरिलब्धोपाधिः प्रसभमनयम गिरिदरीं ॥११० ॥ कदाचिदासन्तीकुहरभुवि भ्रष्टः सरभसं हसन् पृष्ठालम्बी स्थगयति कराभ्यां मम दृशौ । दिघीर्षो जातेष्यं मयि सखि तदीयाङ्गुलिशिसां न जाने कुत्रायं ब्रजति कितवानां कुलगुरुः ॥ १११ ॥ तीतेयं वार्ता विरमतु पुरः पश्य सरले वयस्यस्ते सोऽयं स्मितमधुरिमोन्मृष्टवदनः । भुजस्तम्भोलासादभिमतपरीरम्भरभसः स्मर क्रीडासिन्धुः क्षिपति मयि वन्धूककुसुमं ॥ ११२ ॥ तदुत्तिष्ठ ब्रीडावति निविडमुक्तालतिकया वधानैनं धूर्त सखि मधुपुरीं याति न यथा । इति प्रेमोन्मीलद्भवदनुभवारूढज़ डिमा सखीनामाकन्दं न किल कतिशः कन्दस्वयति ॥ ११३ ॥ कष्टं वाल्यादमिह सखीं दुष्टहृदया मुहुर् मानग्रन्थिं सहजसरलां ग्राहितवती । तदारम्भाद् गोपीगणरतिगुरो निर्भरमसौ न लेभे सुन्धापि त्वदमभुजस्तम्भरभसं | ११४ ॥ by Google Digized by