पृष्ठम्:काव्यसंग्रहः.pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इंसदूतः । मनो मे हा कष्टं ज्वलति किमहं हन्त करवै न पारं नावारं किमुखि कलयाम्यस्य जलधेः । इयं वन्दे मूर्ध्ना सपदि तमुपायं कथय मे परामध्ये यस्माकृतिकलिकयापि क्षणिकया ॥ १०४ ॥ प्रयातो मां हित्वा यदि विबुधचूडामणिरसौ प्रयातु स्वछन्दं मम समयधर्मः किल गतिः । इदं सोढुं का वा प्रभवति यतः स्वप्नकपटाद् इहायातो दृन्दावनभुवि वलान्मां रमयति ॥ १०५# अनौचित्यं तस्य व्यथयति मनो इन्त मथुरां त्वमासाद्य स्खैरं चपलहृदयं धावय हरिं । सखि स्वप्नारम्भे पुनरपि यथा विभ्रममदाद् इहायातो धूर्तः क्षपयति न मे किङ्किनिगुणं ॥ १०६ ॥ श्रय स्वप्नो दूरे निवसतु समक्षं शृणु इठाद् अविश्वस्ता मा भूरिङ सखि मनो विभ्रमधिया । वयस्यस्ते गोवर्द्धनविपिनमासाद्य कुतुकाद् श्रकाण्डे यद्भूयः स्मरकलहपाण्डित्यमकोरोत् ॥ १०७.॥ अमर्षाडावन्तीं गहनकुहरे सूचितपथां तुलाकोटिकाणैश्चकित पदयातद्विगुणितैः । दिधीर्षन्मां हर्षोत्तरलनयनान्तः स कुतुकी न वंशीमज्ञासीहवि करसरोजादिगलितां ॥१०८ ॥ अशक्तां गन्तव्ये कलितनवचेलांकूलतया लतालीभिः पुष्यस्मितशवलिताभिर्विरुघर्ती । २ त 3. jenesty Google ३९३