मनो मे हा कष्टं ज्वलति किमहं हन्त करवै
न पारं नावारं किमुषि कलयाम्यस्य जलधेः ।
इयं वन्दे मूर्ध्ना सपदि तमुपायं कथय मे
परामृष्ये यस्माद्धृतिकलिकयापि क्षणिकया ॥ १०४ ॥
प्रयातो मां हित्वा यदि विबुधचूडामणिरसौ
प्रयातु स्वछन्दं मम समयधर्मः किल गतिः ।
इदं सोढुं का वा प्रभवति यतः स्वप्नकपटाद्
इहायातो वृन्दावनभुवि बलान्मां रमयति ॥ १०५ ।।
अनौचित्यं तस्य व्यथयति मनो हन्त मथुरां
त्वमासाद्य स्वैरं चपलहृदयं धावय हरिं ।
सखि स्वप्नारम्भे पुनरपि यथा विभ्रममदाद्
इहायातो धूर्तः क्षपयति न मे किङ्करिगुणं ॥ १०६ ॥
अय स्वप्नो दूरे निवसतु समक्षं शृणु हठाद्
अविश्वस्ता मा भूरिह सखि मनो विभ्रमधिया ।
वयस्यस्ते गोवर्द्धनविपिनमासाद्य कुतुकाद्
अकाण्डे यद्भूयः स्मरकलहपाण्डित्यमकोरोत् ॥ १०७॥
अमर्षाद्धावन्तीं गहनकुहरे सूचितपथां
तुलाकोटिक्वाणैश्चकित पदपातद्विगुणितैः ।
दिधीर्षन्मां हर्षोत्तरलनयनान्तः स कुतुकी
न वंशीमज्ञासीद्भुवि करसरोजाद्विगलितां ॥१०८ ॥
अशक्तां गन्तव्ये कलितनवचेलांचलतया
लतालीभिः पुष्यस्मितशवलिताभिर्विरुधतीं ।
पृष्ठम्:काव्यसंग्रहः.pdf/४०६
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९३
हंसदूतः ।