पृष्ठम्:काव्यसंग्रहः.pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ इंसदूतः । तथेदानीं हा धिक् समअनि तटस्थः स्फुटमहं भजे लज्जां येन क्षणमिह पुनर्जीवितुमपि ॥ १८ ॥ श्रमी कुञाः पूर्वं मम न दधिरे कामपि मुदं द्रुमालीयं चेतः सखि न कतिशो नन्दितवती । इदानीं पश्यैते युगपदुपतापं विदधते प्रभौ मुक्तापेक्षे भजति न हि को वा विमुखतां ॥ १९॥ गरीयाम्मे प्रेमा त्वयि परमिति सेहलघुता न जीविष्यामीति प्रणयगरिमाख्यापनविधिः कथं नायासीति स्मरणपरिपाटीप्रकटनं हरौ सन्देशाय प्रियसखि न मे वागवसरः ॥ १०० ॥ ययौ कालः कल्यान्यवकलित केलीपरिमलां विलासार्थो यस्मिन्न चलकुहरे लीनवपुष । स मां धृत्वा धूत्ः कृतकपटरोषां सखि हठाद् अकार्षीदाकर्षबुरसि शशिलेखाशततां ॥ १०१ ॥ कदा प्रेमोन्मोलम्मदनमदिराक्षी समुदयं वलादाकर्षन्तं मधुरमुरलीकाकलिकया । मुहुर्भाग्यचिल्ली चुलुकित कुलस्त्रीब्रतमहं विलोकिष्ये लीलामदमिलदपानी मुरभिदं ॥ १०२ ॥ रणमङ्गश्रेणीसुहृदि सरदारम्भमधुरे वनान्ते चान्द्रीभिः किरणलहरीभिर्धवलिते । कदा प्रेमोदण्डस्मरकलहवैतण्डिक महं करिष्ये गोविन्दं निविड भुजवन्धप्रणयिनं ॥ १०३ ॥ Digt:od by Google