पृष्ठम्:काव्यसंग्रहः.pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हंसदूतः । विशीर्णाङ्गीमन्तर्ब्रण विलुठनादुत्कलिकया परीतां भूयस्या सततमपरागव्यतिकरां । परिध्वस्तामोदां विरमितसमस्तालि कुतुकां विधी पादस्पर्शादपि सुखय राधाकुमुदिनीं ॥ १३ ॥ विपत्तिभ्यः प्राणान् कथमपि भवत्सङ्गमसुख स्पृहाधीना शौरे मम सहचरी रक्षितवती । अतिक्रान्ते संप्रत्यवधिदिवसे जीवनविधौ इताशा निःशङ्कं वितरति दृशौ चूतमुकुले ॥ १४ ॥ प्रतीकारारम्भश्चयमतिभिरुद्यत्परिणतेर् विमुक्ताया व्यक्तस्मरकदनभाजः परिजनैः । मुंछन्ती सङ्गं कुवलयदृशः केवलमसौ वलादय प्राणानवति भवदाशा सहचरी ॥ १५ ॥ अये रासक्रीडारसिक मम सख्यां नवनवा पुरा वचा येन प्रणयलहरी इन्त गहना | स चेन्मुक्तापेक्षत्वमसि धिगिमां तूलशकलं यदेतस्या नासानिहितमिदमद्यापि चलति ॥ २६ ॥ मुकुन्द भ्रान्ताक्षी किमपि यदसङ्कल्पितशतं विधत्ते तदक्तुं जगति मनुजः कः प्रभवति । कदाचित्कल्याणी विलपति यदुत्कण्ठितमतिस् तदास्यामि स्वामिन् गमय मकरोत्तंशसविधं ॥ १७ ॥ अभूत् कोपि प्रेमां मयि मुररिपोर्यः सखि पुरा परावर्मापेक्षामपि तदवलम्बादलघयं । Digized by Google ३८१