पृष्ठम्:काव्यसंग्रहः.pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८६ हंसदूतः । जनान् सिद्धादेशान्नमति भजते मान्त्रिकगणान् विधते शुश्रुषामधिकविनये नौषधिविदां । त्वदीक्षादीक्षायै परिचरति भक्त्या गिरिसुतां मनीषा हि व्यग्रा किमपि शुखहेतुं न मनुते ॥ ८२ ॥ पशूनां पातारं भुजगरिपुषप्रणयिनं स्मरोहर्डिकीडं निविडघनसातिरं । सदाभ्यर्णे नन्दीश्वरगिरिभुवो रङ्गरसिकं भवन्तं कंसारे भजति भवदाध्यै मम सखी | ८३ ॥ भवन्तं सन्तप्ता विदलिततमालाकुररसैर् विलिस्य भूभङ्गोकृतमदनकोदण्डकदनं । निधास्यन्ती कण्ठे तब निजभुजावल्लरिमसौ धरण्यामुन्मीलज्जडिमनिविडाङ्गी विलुठति ॥ ८४ ॥ कदाचिम्मूढेयं निविडभवदीयस्मृतिमदाद् अमन्दादात्मानं कलयति भवन्तं मम सखी । तथास्या राधाया विरहदहनाकल्पितधियो मुरारे दुःसाधा क्षणमपि न राधा विरमति ॥ ८५ ॥ त्वया सन्तापानामुपरि परिमुक्तापि रभसाद् इदानीमापेदे तदपि तव चेष्टां प्रियसखी । यदेषा कंसारे भिदुरहृदयं त्वामवयती सतीनां मूर्धन्या भिदुरहृदयाऽभूदनुदिनं ॥ ८ ॥ समक्षं सर्वेषां निवससि समाधिप्रणयिनाम् इति श्रुत्वा नूनं गुरुतरसमाधिं कलयति । Digized by Google