पृष्ठम्:काव्यसंग्रहः.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इंसदूतः । कथं सङ्गोस्माभिः सह समुचितः संप्रति हरे वयं ग्राम्या नार्यस्त्वमसि न्ढयकन्यार्चितपदः । गतः कालो यस्मिन् पशुपरमणीसङ्गमकृते भवान् व्यग्रस्तस्थौ तमसि गृहवाटीविटपिनिः ॥ ७१ । वयं त्यक्ताः स्वामिन् यदि छ तव किं दूषणमिदं निसर्गः श्यामानामयमतितरां दुष्परिहरः । कुद्दूकण्ठै रण्डावधिसहनिवासात् परिचिता विसृज्यन्ते सद्यः कलितनवपक्षैर्वलिभुजः ॥ ७२ ॥ अयं पूर्वोरङ्गः किल विरचितो यस्य तरसा रसादास्थातव्यं परिकलय तन्नाटकमिदं । मया प्रष्टव्योसि प्रथममिति हृन्दावनपते किमाहो राधेति स्मरसि कृपणं वर्णयुगलं ॥ ७३ ॥ अये कुञ्जद्रोनीकुहरगृह मेधिन् किमधुना परोक्षं वक्ष्यन्ते पशुपरमणीदुर्नियतयः । प्रवीणा गोपीनां तव चरणपद्मर्पितमना ययौ राधा साधारणसमुचितप्रश्नपदव ॥ ७४ ॥ त्वया गोष्ठं गोष्ठीतिलक किल चेहिस्मृतमिदं न तूर्णं धूमोर्णापतिरपि विधत्ते यदि कृपां । अहन्दं हृन्दावनकुसुमपालीपरिमलैर् दुरालोकं शोकास्पदमथ कथं नेष्यति सखी ॥ ७५ ॥ तरः कुर्वाणा शमनभगिनीलाघवमसौ नदीं कांछिङ्गोष्ठे मयनजलपूरैरजनयत् । Google Digitized by ३८७