पृष्ठम्:काव्यसंग्रहः.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इंसदूतः । समन्तादुन्मीलदलभिदुपलस्तम्भयुगल प्रभाजैवं केशिद्धिजलुलितकेयूरललितं । स्मरक्लाम्यङ्गोपीपटलइठकण्ठग्रह परं भुजइन्द्रं यस्य स्फुटसुरभिगन्धं विजयते ॥६० ॥ जिहीते साम्राज्यं जगति नवलावण्यलहरी परीपाकस्यान्तर्मुदितमदनावेशमधुरं । नटवलीकं स्मितनवसुधाकेलिसदनं स्फुरन्मुक्तापङक्तिप्रतिमरदनं यस्य वदनं ॥ ६१ ॥ किमेभिर्व्याहारैः कलय कथयामि स्फुटमहं सखे निःसन्देहं परिचयपदं केवलमिदं । परानन्दो यस्मिन्नयनपदवीभाजि भविता त्वया विज्ञातव्यो मधुररव सोऽयं मधुरिपुः ॥ ६२ ॥ विलोकेथाः कृष्णं मदकलमरालीरर्तिकला विदग्धव्यामुग्धं यदि पुरवधूविभ्रमभरैः । तदा नास्मान् ग्राम्याः श्रवणपदव तस्य गमयेः सुधापूर्ण चेतः कथमपि न तक्रं मृगयते ॥ ६३ ॥ यदा वृन्दारण्यस्मरणलहरीहेतुरमलं पिकानां वेवेष्टि प्रतिहरितमुत्रैः कुहुरुतं । वहन्ते वा वाताः स्फुरितगिरिमलीपरिमलास् तदैवास्माकीनां गिरमुपहरेथा मुरभिदि ॥ ६४ ॥ पुरा तिष्ठन् गोष्ठे निखिलरमणीभ्यः प्रियतया भवान् यस्यां गोपीरमण विदधे गौरवमरं । प red by Google ३८५