पृष्ठम्:काव्यसंग्रहः.pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ हंसदूतः । क्षणं यानालोक्य प्रकटपरमानन्दविरसः स देवर्षिर् मुक्तानपि तनुभृतः शोचति भृशं ॥ ५४॥ सरोजानां व्यूहः श्रियमभिलसन् यस्य पदयोर् ययौ रागाड्यानां विधरमदवासव्रतविधिं । हिमं वन्दे नीचैरनुचितविधानव्यसनिनां यदेषां प्राणान्तं दमनमनुवर्षं प्रणयति ॥ ५५ ॥ रुचीनामुल्लासैर् मरकतमयस्थूलकदली कदम्बाहङ्कारं कवलयति यस्योरुयुगस्तं । यदालानस्तम्भद्युतिमवललम्बे वलमृतां मदादुद्दामानां पशुपरमणीचित्तकरिणां ॥ ५६ ॥ सखे यस्याभीरीनयनसफरीजीवनविधी निदानं गाम्भीर्यप्रसरकलिता नाभिसरसी । यतः कल्पस्यादौ सनकजनकोत्पत्तिवडभी गभीरान्तःकक्षाधृतभुवनमम्भोरुहमभूत् ॥ ५७ ॥ युधितं यस्य चिवलिलतिका सङ्कटतरं सखे दामश्रेणीक्षणपरिचयाभिन्जमुदरं । यशोदा यस्यान्तः सुरनरभुजङ्गैः परिवृतं मुखद्दारावारदयमवलुखोके त्रिभुवनं ॥ ५८ ॥ उरो यस्य स्फारं स्फुरति वनमालावलयितं वितम्बानं तन्वीजनमनसि सद्यो मनसिजं । मरीचीभिर्यस्मिन् रविनिवहतुल्योपि वहते सदा खद्योताभां भुवनमधुरः कौस्तुभमणिः ॥ ५८ ॥ Digted by Google