पृष्ठम्:काव्यसंग्रहः.pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हंसदूतः । उदंवत्कालिन्दीसलिलसुभगम्भावुकरुचिः कपोलान्ते प्रेखन्मणिमकरमुद्रामधुरिमा । वसानः कौषेयं जितकनकलक्ष्मीपरिमलं मुकुन्दस्ते साक्षात् प्रमदसुधया सेक्ष्यति दृशौ ॥ ४९ ॥ विकटुः पोराणीरखिलकुलहडो यदुपतेर् अदूरादसीनो मधुरभणितिर्गास्यति तदा । पुरस्तादाभीरीगणभयदनामा सकठिनो मणिस्तम्मालम्बी कुरुकुलकथां सङ्कलयिता ॥ ५० ॥ शिलीनामुत्तुंसः स किलकृतवर्माप्युभयतः प्रणेष्येते बालव्यजनयुगलान्दोलनविधिं । स जानुभ्यामष्टापदभुवमवष्टभ्य भविता गुरोः शिष्यो नूनं पदकमलसम्बाइनरतः ॥ ५१ ॥ विहङ्गेन्द्रो युग्मीकृतकरसरोजो भुवि पुरः कृताशको भावी प्रजविनि निदेशेऽर्पितमनाः । इददंडे यस्य ध्वनति मथुरावासियटवो व्युदस्यन्ते सामस्वरकलितमन्योन्यकलचं ॥ ५२ ॥ न निक्तुं दामोदरपदकनिष्ठा ङ्गुलिनख द्युतीनां लावण्यं भवति चतुरायोपि चतुरः । तथापि स्त्रीप्रज्ञासुलभतरलत्वादहमसौ प्रहत्ता तन्मूर्तिस्तवरतिमहासाइसरसे ॥ ५३ ॥ विराजन्ते यस्य व्रजशिशु कुलस्तेयविकल स्वयम्भूचूडाग्रैर्लुलितशिखराः पादनखराः । higt zed by Google ३८३