सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८२
हंसदूतः।

स्फुरन्तं वीक्षिष्ये पुनरपि किमग्रे मुरभिदं ॥ ४३ ॥
विषादं माकार्षीर्द्रुतमवितथव्या हृतिरसौ
समागन्ता राधे धृतनवशिखण्डस्तव सखा ।
इति ब्रूते यस्यां शुक्रमिथुनमिन्द्रानुज कृते
यदाभीरीवृन्दैरुपहृतमभूदुद्धवकरे ॥ ४४ ॥
युग्मकं ॥
घनश्यामा भ्राम्यत्युपरिहरिहर्मस्य शिखिभिः
कृतस्तोत्रा मुग्धैरगुरुजनिता धूमलतिका ।
तदालोकाद्धीर स्फुरति तव चेन्मानसरुचिर्
जितं तर्हि स्वैरं जनसहनिवासप्रियतया ॥ ४५ ॥
ततोमध्येकक्षं प्रतिनवगवाक्षस्तवकितं
चलन्मुक्तालम्बस्फुरितममलस्तम्भनिवहं ।
भवान् दृष्टा हेमोल्लिखितदशमस्कन्धचरितैर्
लसद्भित्तिप्रान्तं मुरविजयिनः केलिनिलयं ॥ ४६॥
अलिन्दे यस्यास्ते मरकतमयी यष्टिरमला
शयालुर्यां रात्रौ मदकलकलापी कलयति ।
निरातङ्कन्तस्याः शिखरमधिरुह्य श्रमनुदं
प्रतीक्षेथा भ्रातर्वरमवसरं यादवपतेः ॥ ४७ ॥
निविष्टः पर्यङ्के मृदुलतरतूलीधवलिते
त्रिलोकीलक्ष्मीणां ककुदि दरसाचीकृततनुः ।
अमन्दं पूर्णेन्दुप्रतिममुपधानं प्रमुदितो
निधायाग्रे तस्मिन्नुपहितकपोलिद्वयभरः ॥ ४८ ॥