पृष्ठम्:काव्यसंग्रहः.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ इंसदूतः । स्फुरन्तं वीक्षिष्ये पुनरपि किमग्रे मुरभिदं ॥ ४३ ॥ विषादं माकार्षीतम वितथव्या इतिरसौ समागन्ता राधे धृतनवशिखण्डस्तव सखा । इति ब्रूते यस्यां शुक्रमिथुनमिन्द्रानुज कृते यदाभीरीदृन्दै रुपहृतमभूदुवकरे ॥ ४४ ॥ युग्मकं ॥ घनश्यामा भ्राम्यत्युपरिहरिहर्मस्य शिखिभिः कृतस्तोचा मग्धैरगुरुजनिता धूमलतिका । तदालोकाबीर स्फुरति तब चेम्मानसरुचिर जितं तर्हि स्वैरं जनसहनिवासप्रियतया ॥ ४५ ॥ ततोमध्येकक्षं प्रतिनवगवाक्षस्तवकितं चलम्मुक्तालम्बस्फुरितममलस्तम्भनिवहं । भवान् द्रष्टा हेमोल्लिखितदशमस्कन्धचरितैर् लसद्भित्तिप्रान्तं मुरविजयिनः केलिनिलयं ॥ ४६॥ अलिन्दे यस्यास्ते मरकतमयो यष्टिरमला शयालुय रात्रौ मदकलकलायी कलयति । निरातङन्तस्याः शिखरमधिरुय श्रमनुदं प्रतीक्षेथा भ्रातर्वरमवसरं यादवपतेः ॥ ४७ ॥ निविष्टः पल्यते मृदुलतरतूलीधवलिते त्रिलोकीलक्ष्मीणां ककुदि दरसाचीकृततनुः । श्रमदं पूर्णेन्दुप्रतिममुपधानं प्रमुदितो निधाया तस्मिनु पहितकफोलिइयभरः ॥ ४८ ॥ Digi: zed by by Google