पृष्ठम्:काव्यसंग्रहः.pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इंसदूतः । अतः शङ्खे पयेरुहमुखि ययौ श्यामलरुचिः स यूनामुत्तुंसस्तव नयनवीथीपथिकतां ॥३८॥ विलज्जं मा रोदीरिह सखि पुनर्यास्यति हरिस् तवापानक्रीडानिविडपरिचर्याग्रहिलतां इति खैरं यस्यां पथि पथि मुरारेरभिनव प्रवेशे नारीणां रतिरभसजल्पा ववनिरे ॥ ३८ ॥ पंछभिः कुलकं || । सखे साक्षादामोदरवदनचन्द्रा वकलन स्फुरतत्प्रेमानन्दप्रकरलहरीचुम्बितधियः । मुहुस्तत्राभीरीसमुदयशिरोन्यस्तविपदस् तवाक्षो रानन्दं विदधति पुरा पौरवनिताः ॥ ४० ॥ अथ कामं कामं क्रमघटनया सङ्कटतरान् निवासान् सृष्णीनामणुसर पुरीमध्यविशिखान् । मुरारातेर्यत्र स्थगितगगनाभिर् विजयते पताकाभिः सन्तर्पितभुवनमन्तःपुरवरं ॥ ४१ ॥ यदुत्सने तुङ्गस्फटिकर चिताः सन्ति परितो मराला मानिक्यप्रकरघटितचोटिचरणाः । सुहृदुड्या हंसाः कलितमधुरस्याम्बुजभुवः समर्यादा येषां सपदि परिचर्या विदद्धति ॥ ४२ ॥ चिरान्मृग्यन्तीनां पशुपरमणीनामपि कुलैर् अलब्धं कालिन्दीपुलिनविपिने लीनमभितः । मदालोकोल्लासिस्मितपरिचितास्यं प्रियसक्षि Digitized by by Google