पृष्ठम्:काव्यसंग्रहः.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० हंसदूतः । निकेतैराकीर्णा गिरिशगिरिडिम्भप्रतिभटैर् अष्टभस्तभावलिविलसितैः पुष्पितवना । निविष्टा कालिन्दीतटभुवि तवाधास्यति सखे समन्तादानन्दमधुरजनहन्दा मधुपुरी ॥ ३३ ॥ वृषः शम्भोर्यस्यां दशति नवमेकत्र यवसं विरंछे रन्थस्मिन गिलति कलहंसो विसलतां । क्वचित् कछारातेः कवलयति केकी विषधरं विलीढे शलक्या वलरिपुकरी पलवमितः ॥ ३४ ॥ अवोधिष्ठाः काषान्नहि विघटितां प्रच्छदपों विमुक्तामझासीः पथि पथि न मुक्तावलिमपि । अयि श्रीगोविन्दस्मरणमदिरामतहृदये सतीति ख्यातिं ते इसति. कुलटानां कुलमिदं ॥ ३५ ॥ असव्यं विवाणा पदमधृत लाक्षारसमसौ प्रयाताहं मुग्धे विरम मम वेशैः किमधुना । अमन्दादाशके सखि पुरपुरन्ध्रीकलकलाद् अलिन्दाग्रे वृन्दावन कुसुमधन्वा विजयते ॥ ३६॥ अयं लीलापाङ्गस्वपितपुरवीथीपरिसरो नवाशोकोत्तंसञ्चलति पुरतः कंसविजयी । किमस्मानेतस्माम्मनिभवनपृष्ठाडिनुदती त्वमेका स्तव्याक्षि स्थगयसि गवाक्षावलिमपि ॥ ३७ ॥ मुहुः शून्यां दृष्टिं वहसि रहसि ध्यायसि सदा शृणोषि प्रत्यक्षं न परिजमविज्ञापनशतं । Tigered by Google I