पृष्ठम्:काव्यसंग्रहः.pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हंसदूतः । तमेवाद्रि चकातिपरिङ्गरसिकं महीचक्रे शङ्केमहि शिखरिणां शेखरतया । श्ररातिं ज्ञातीनां ननु हरिइयं यः परिभवन् यथार्थं स्वं नाम व्यधित भुवि गोवर्द्धन इति ॥ २२ ॥ समालस्यालोकाहिरिपरिसरे सन्ति चपलाः पुलिन्दो गोविन्दस्मरणरभसोत्तप्तवपुषः । शनैस्तापं तासां क्षणमपनयन् यास्यति भवान् अवश्यं कालिन्दीसलिलशिशिरैः पक्षपवनैः ॥ २३ ॥ तदन्ते श्रीकान्त स्मरसमरधाटीपुटकिता कदम्बानां वाटी रसिकपरिपाठीं स्फुटयति । त्वमासीनस्तस्यां न यदि परितो नन्दसि ततो वभूव व्यर्था ते घणरसनिवेशव्यसनिता ॥ २४ ॥ शरन्मेघश्रेणीप्रतिभटमरिष्टासुरशिरस् चिरं शुष्कं वृन्दावनपरिसरे द्रक्ष्यति भवान् । यदारोढुं दूराम्मिलति किल कैलासशिखरि भ्रमाक्रान्तस्वान्तो गिरिशसुहृदः किङ्करगणः ॥ २५ ॥ रुवन् याहि स्वैरं चरमदशया चुम्बितरुचो नितम्बिन्यो वृन्दावनभुवि सखे सन्ति बहवः | परावर्तिष्यन्ते तुलितमुरजिन्नूपुरवात् तय ध्वानात्तासां वहिरपि गताः क्षिप्रमसमः ॥ २६ ॥ त्वमासीनः शाखान्तरमिलित चण्डत्विषि सुखं दधीया भाण्डीरे क्षणमपि घनश्यामलरुचौ higt: red by Google