पृष्ठम्:काव्यसंग्रहः.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इंसदूतः । तव श्रान्तस्यान्तः स्थगितरविविम्बः किसलयैः कदम्बः कादम्ब त्वरितमयलम्बः स भविता ॥ १६ ॥ किरन्ती लावन्यं दिशि दिशि शिखण्डस्तवकिनी दधाना साधीयः कनकविमलद्योतिवसनंं । तमालश्यामाङ्गी सरलमुरलीचुम्बितमुखी जगौ चित्रं यत्र प्रकटपरमानन्दलहरी ॥ १७ ॥ तया भूयः क्रीडारभसविकसदलववधू वपुर्वीभ्रश्यन्मृगमदकलश्यामलिकया । विधातव्यो हल्लीसकदलितमलीलतिकया समन्तादुल्लासस्तव मनसि रासस्थलिकया ॥ १८ ॥ तदन्ते वासन्तीविरचितमनङ्गोत्सवकला चतुःशालं शौरेः स्फुरति न दृशौ तच विकिरेः । तदालोकोद्भेदप्रमदभर विस्मारितगति किये जाने तावत्वयि वत इता गोपवनिता ॥ १९ ॥ मम स्वादर्थानां क्षतिरिड विलम्बाचदपि ते विलोकेथाः सर्वं तदपि हरिकेलिस्थलमिदं । तवेयं न व्यर्था भवतु शुचिता कः स हि सखे गुणो यश्वाणूरद्दिषि मतिनिवेशाय न भवेत् ॥ २० ॥ सकृदंशीनादश्रवणमिलिताभीरवनिता रहः क्रिडासाक्षी प्रतिपदलतासद्मसुभगः । स धेनूनां वन्धुर्मधुमथ नखट्टायितशिलः करिष्यत्यानन्दं सपदि तव गोवर्द्धनगिरिः ॥ २१ ॥ २६ 48ighted by Google