पृष्ठम्:काव्यसंग्रहः.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ इंसदूतः । निरस्तप्रत्यूहं भवतु भवतो वर्त्मनि शिवं समुत्तिष्ठ क्षिप्रं मनसि मुदमाधाय सदयं । अधस्ताद्धावन्तो लघु लघु समुत्ताननयनैर् भवन्तं वीक्षन्तां कुतुकतरला गोपशिशवः ॥ ११ किशोरोत्तंशोसौ कठिनमतिना दानपतिना यया निन्ये तूनें पशुपयुवतीजीवितपतिः । तया गन्तव्या ते निखिलजगदेकप्रथितया पदव्या भव्यानां तिलक किल दाशाईनगरी ॥ १२ ॥ गलद्दास्पासारसुतधवलगण्डा मृगहशो विदूयन्ते यत्र प्रवलमदना वेशविवशाः । त्वया विज्ञातव्या हरिचरणसङ्गप्रणयिनो ध्रुवं सा चक्राङ्गी रतिसखशताङ्गस्य पदवी ॥ १३ ॥ पिवन जम्बुश्यामं मिहिर वारि मधुरं मृणालीर् भुञ्जानो हिमकरकलाकोमलरुचः । क्षणं हृष्टस्तिष्टन् निविडविटपे शाखिनि सखे सुखेन प्रस्थानं रचयतु भवान् दृष्णिनगरे ॥ १४ ॥ बलादाक्रन्दन्तीरथपथिकमकरमिलितं विदूरादाभोरीततीरनुययौ येन रमणं । तमादौ पन्थानं रचय चरितार्था भवतु ते विराजन्ती सर्वोपरि परमहंसस्थितिरियं ॥ १५ ॥ अकस्मादस्माकं हरिरपहरबंशुकचयं यमारूढो गूढप्रणयलहरीं कन्दलयितुं । pigt: red by Google