हंसदूतः ।
३७५
पराद्यत्तश्वासाडुरचलितकण्ठीं कलयतां
सखीसन्दोहानां प्रमदभरशाली ध्वनिरभूत् ॥ ५ ॥ निधायाङ्गे पङ्गेरुहदलविटङ्गस्य ललिता ततो राधां नीराहरणसरणीन्घस्तचरणा ।
मिलन्तं कालिन्दीपुलिनभुवि खेलांछितगतिं
ददर्शग्रे कछिन्झघुरविरुतं श्वेतगरुतं ॥ ६ ॥ तदालोकस्तोकोच्छुसितहृदया सादरमसौ
प्रणामं संशन्ती लघु लघु समासाद्य सविधं । श्वतोत्कण्ठा सद्यो हरिसदसि सन्देशहरणे
वरं दूतं मेने तमतिललितं हन्त ललिता ॥ ७ ॥ अमर्षात् प्रेमेष्र्यां सपदि दधती कसमथने
प्रवृत्ता हंसाय खमभिलषितं शंसितुमसौ । न तस्या दोषेोऽयं यदिह विहगं प्रार्थितवती न कस्मिन् विस्रम्भं दिशति हरिभक्तिप्रणयिता ॥ ८ ॥
पविचेषु प्रायो विरचयसि तोयेषु वसतिं प्रमोदं नालीके वहसि विषदात्मा स्वयमसि ।
श्रतोहं दुःखार्ता शरणमवला त्वां गतवती न भिक्षा सत्पक्षे ब्रजति हि कदाचिद्दिफलतां ॥ ९ ॥
चिरं विस्मृत्यास्मान् विरहदहनञ्चालविकलाः कखावान् सानन्दं वसति मथुरायां मधुरिपुः । तदेतं सन्देशं स्वमनसि समाधाय निखिल
भवान् क्षिप्रं तस्य श्रवनपदवीं संगमयतु ॥ १० ॥