पृष्ठम्:काव्यसंग्रहः.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उच्चवदूतः मन्तव्योसौ परिजनतया बल्लभस्येति तस्यै वारं वारं तदनु दधिरे तेन दण्डप्रणामाः ॥ १३७ ॥ सर्वाङ्गीनं पुलकमुदभूदनुमग्रे च दृष्टी कण्ठोभनस्वर इववचः पर्यवस्थानशून्यं । तस्यास्तस्याप्यजनि युगपद्यानकाले तदानों मुग्धा मूर्त्तन्यभवदुभयोरगुता पुष्पदृष्टिः ॥ १३८ ॥ श्रमक्यैकस्तदनु सकलं घोषमुत्कण्ठमानः सद्यो राधारमणचरणप्रेक्षणाय प्रतस्थे । मन्त्रं चिन्तामणिमिव पराचिन्तयन्ती चिराय प्रेयः सूक्तं वनभुवि घनानन्दमनावतस्थे ॥ १३८ ॥ नानारामप्रणयिषु मनः सङ्गसौभाग्यभाजा जाड्यापाये सुरभिसमयस्थायिना माधवेन । राधावन्धोरुपहृतमिति प्रेममाध्वीकमेसन् निर्विघ्ने॑न श्रवणपुटकैः पुन्यवन्तः पिवन्तु ॥ १४० ॥ विचारपारहश्वानः कृतं कृशधिया मया । करुणार्द्राः करिष्यन्ति शुद्धमुहवदूतकं ॥ १४१ ॥ इति तालितनगरनिवासि श्रीमाधवकवीन्द्र भट्टाचार्य विरचितं उज्जवदूतं खण्ड का व्यं सम्पूर्णमिति ॥ ० ॥ Digized by ३७३ Google