पृष्ठम्:काव्यसंग्रहः.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उजवदूतः । इत्यादिष्टं भुवनगुरुणा गौरवेण क्रियाणाम् अभागन्तुं किमिव शयि ना भोक्त मप्यक्षमेण । तामौत्सुक्यादिति स कथयनात्मनः पादमूले निम्नासीनः सुरभिशिशिरं निर्झरं किञ्चिदाप ॥ १३२॥ पश्यन्नेतत् किमिति कथयन्नश्रुधारामुदारां मन्दाकिन्याद्रव तनुभृतः सुभुषः सुस्थितायाः । हा छा जातं किमिति चकितः सत्वरं प्रोंच्यपादौ भक्तिवासपुलकमुपादाय मूर्ध्ना ववन्दे ॥ १३३ ॥ बुद्धा वचाञ्चलिपुटमिमां किंछिदाख्यातुकामाम् इत्याचख्यौ विरमतु परं निष्फलो देवि खेदः । एतद्दासो नयवति हरेः श्रीमदङ्गाधिरुढं चेतोमूढं न कुरु करुणासागरे सङ्गतासि ॥१३४॥ भास्वानश्वानयमति कृती खेलयन्नम्बरान्तर् धर्मस्थित्यै भ्रमति भुवने तामसोन्मूलनाय । प्रादक्षिण्या ज्झटिति विनतानन्दनाधीनयानो रागी चिन्तां न कुरु कुरुते पद्मिनीनां प्रवोधं ॥ १३५ ॥ गोपीमाचं घुणलिपिनयान्माधवप्रेमपाचं मत्वा यत्त्वामनतिशयिनी हृष्टिरग्रे ममासीत् । क्षन्तव्यं तविधिविधिसुतव्योमकेशाब्धिपुत्री मृग्यः पाशे पशुरिव तव प्रेम्नि वडो यदस्ति ॥ १३६ ॥ मातर्मातर्जय जय जगन्मोहनं मोहयन्त्याः कस्ते तत्त्वं कलयतु न यद्देदगर्भोपि वेद । night red by Google