पृष्ठम्:काव्यसंग्रहः.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उडवदूतः । हित्वा वेशं कुवलयदृशां केशमक्षिभुवं वा क्षन्तव्या मे नहि कुटिलतेत्येतदुबायकं तत् ॥ १२६ ॥ विद्युलोलं वपुरिदमितो यौवनादेः कथा का दृश्यं मिथ्या सकलमिति महासदासोपि वेद । किंते वक्ष्ये स्वयममुमहं नैव वक्तुं समर्थो यज्ञोपोतत् प्रणयमदिरामत्तमात्मानमेव ॥ १२७ ॥ उद्यहोचस्खलनमनिशं गोपिते गोपयिष्यन राधानाम्बी मकरवमहं सारिकामन्तिकस्थां । नीता राधे मम मुरलिकेत्येवमादीन्यकाण्डे वक्तुं सभ्यस्मितजनयितुस्तन्मयासीहयैव ॥ १२८ ॥ अस्त्रं प्रस्थापनमपि मया लब्धमुन्निद्रवेण यस्मिन्नेतन्निहितमथ ते स्वप्नसन्दर्शनाय । जाग्रद्भावे भवति भवती भावनीयैव धिङमे तेनाशेष स्फुरणशमनी हन्त जाता सुषुप्तिः ॥ १२८ ॥ याने प्राणेश्वरि मम यथा निर्विवाद तथा ते सन्तप्ताया युगपदभियन्त्यद्य तम्बोरजन्यः । यास्यन्त्येता दिनकतिपयैरङ्गपल्यभाजोः सत्यं सत्यं निमिषनिभतामावयोः सुस्थितास्था ॥ १३० ॥ जातिग्रामो इसति निवतं वन्धुवर्गो रुि क्रीडामन्तद्धति गुरवो नीरवो भृत्यलोकः । चित्रीयन्ते किमपि सुजना दुर्जनाः कुत्सयन्ते साधन्ते मां सदसि रसिकाः सादरं त्वत्कथासु ॥ १३१ ॥ Thigt Zed by Google