पृष्ठम्:काव्यसंग्रहः.pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उडवदूतः । साक्षादीक्षा न भवतु चिरं चिन्तिता तेन माभूर् दैवाधीनो गमयति अनः कोपि कुचापि काजं । वन्धीभूतं मयि सब मनत्वय्यपीदं ममेति दाभ्यामाभ्यां मिलनमचिरादावयोः साधनीयं ॥ १२१ राधे राधे क चलसि मनाक् तिष्ठ कल्याणि कुत्रे प्रातर्जातं नहि नहि निशा सावशेषाधुनापि । इत्यावेशप्रलपितशतंमहतं देवि दिग्भ्यः संप्राप्तास्ते कथयितुममी साक्षियः सन्ति सभ्याः ॥ १२२ ॥ रुवा बन्धुप्रणयपदवी लंघिता लोकसञ्जा मूर्ध्नि न्यस्तं पदमयशसः शङ्कितो नापम्मृत्युः । मामाराडुं किमिव न कृतं दुष्करं त्वाहशीभिस् त्यक्ता युष्मान् मम युदुपतेरद्य राज्यं धिगस्तु ॥ १२३ ॥ रम्या हर्म्यावलिरियममी वन्धवः सानुवन्धाः निर्वैरेयं जयति नगरी गुंफिता नागरीभिः । एषा सम्पत् किमिह न सुखं किन्तु कान्तारकुक्षौ युष्माभिर्यः समजनि स मे दुर्लभो हृहिनोदः ॥ १२४॥ मोपष्टम्भो गुणवति तव स्यादयं चेत्तदानीं. नाहं नासावतिनवघनश्यामलो देहवन्धः | दुःखं क्वापि कचिदपि सुखं यच्छसि क्वापि मोहं सर्वचैवं स्फुरति मम तु त्वन्मयी सृष्टिरेव ॥ १२५ ॥ कुब्जाम्सृज्चीमकरवमुरीत्य यनिर्घृणत्वं तत्तात्पर्यं विपुलमतयो मापयन्ति क्षतिः का । Digitized by Google