पृष्ठम्:काव्यसंग्रहः.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उढवदूतः किञ्च प्रोतं बहुभिरभितः शुष्कं शैवालखण्डैः सारं शौरेरखिलमपित दर्णयामास भूयः ॥ ११५ ॥ पश्चादूचे पुनरयमिदं चेलवलीं धुनानस् तस्मादस्याः शपथशतकैः सन्निवृत्तः कथंछित् । लक्ष्मीर्यस्मानिवसति वशित्वं सदन्तर्निमझा मन्योरन्यो भवतु विषयः सा किमेवं विधासि ॥ ११६ ॥ धाराबाहि व्यसनकथनाहूतवत्याः प्रियायाः सूक्ता सत्तिव्यवधिभयतो यन्त्र मध्ये मयोक्तं । मौयादेवं मम किमु महानेव न स्वादनर्थस् तस्यायं चेहसनपवनः पावनो नाभविष्यत् ॥ ११७ ॥ यस्ते मनो मनसि हृदये यस्य च त्वं विलीना मन्यन्ते यञ्चरणशरणा भूतिमैन्द्रीं तृणाय । यस्यालाभात् पुरयुवतयो नाखशैवालशय्याः सूर्या गर्यज्वलितवपुषो यामिनीर्यापयन्ति ॥११८ ॥ यस्याद्य त्वहिरहदहनज्वालया पाण्डुभासो वासो नीलं गमयति भिदामम्ब नीलाम्बरेण । दासो रासोत्सषनटगुरोरस्य सोहं समोहं स त्वामावेदयति यदिदं मम्मुखेन प्रतीहि ॥ ११८॥ दैवादद्य प्रतिपदमितो विश्वतो बन्धुपार देहेनैव हिजपदमनुप्रापितः संयतोस्मि । यस्मिन् वास्ले तपनतनयाकूलकुवान्तराले चित्तेन त्वं विरमति न मे किन्तु केलीविनोदः ॥ १२० ॥ 27ed by Google