पृष्ठम्:काव्यसंग्रहः.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उङ्घवदूतः । · चक्रे चैतन्मनसि चतुराञ्चेटकाञ्चक्रपाणेर् लक्षं यत्स्यातदपि यदसौ मामिदैकं न्ययुक्त । एतत् सम्भावनसमुचितं साध्वभूम्पुर्ण मे यद्रक्षायामहमधिकृतो नाशितेयं मयैव ॥ ११० ॥ सम्यग्जातं सुचिरविरहज्वालया दूयमाना सेयं साध्वी विशति परमानन्दधामन्यनन्ते । मन्त्री वैज्ञानिक इति वृथा मानमासाद्यमाद्यन् अद्य स्वीयां मतिपरिणतिं वुद्धवानुचवोपि ॥ १११ ॥ बन्नेतन्मधुपुरपतिमँस्यते कीडशं मां किं वा भावी कथमिव मया दर्श्यतामास्यमस्मै । ध्याय नेतत् पुलक मुकुलारम्भिसस्यन्दतारं पश्यन्नस्या मुखमकथयत् प्राणिति प्राणितीति ॥ ११२ | नष्टं प्राप्त निधिमिव मुखं वीक्ष्यमाणोऽयमस्या भूयः सिष्टम्मधुपुरपतेरुत्तरीयानिखेन । उच्चैराह श्रुतिपरिसरे किंकरं कंसशीर् दूतं राधे त्वयि विनिहित विश्चिमामुञ्चवोस्मि ॥११३ ॥ सातिस्वादर्दवबुदमनी तुल्यपीयूषवाणी वर्णश्रेर्णिः श्रवणपुटके नान्तरस्या विशन्ती । को जानते किमत परं सत्वरं सापि तन्वी कि किद्धिं कथय कथयेत्युत्थिता कौतुकेन ॥ ११४ ॥ आदावस्यै मलयजलैमर्मरीभूतमन्तर् म्लानाभोगं नयनपयसः प्रोचनात् साञ्जनस्य | Digit: zed by Google