गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्दालोके नरपतिपथे सूचिभेचैस्तमोभिः ।
सौदामिन्या कनकनिकष छायया दर्शयोर्वी
तोयोत्सर्गस्तनितमुखरो मा च भूर्विअवास्ताः ॥ ३८ ॥
तां कस्याम्बिवनवडभी सुप्तपाराबतायां
नीत्वा रात्रि चिरविलसनात् खिन्नविद्युत्कलभः ।
हृष्टे सूर्ये पुनरपि भवान् वाइयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थवत्याः ॥ ४० ॥
तस्मिन् काले नयनसलिलं योषितां खण्डितानां
शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्यजाशु ।
प्रालेयाश्रं कमलवदनात् सोऽपि धर्तुं नलिन्याः
प्रत्यारत्तस्त्वयि कररूधि स्यादनल्पाभ्यसूयः ॥ ४१ ॥
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने
छायात्मापि प्रकृतिसुभगो लप्यते ते प्रवेशं ।
तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान्
मोघीकर्तुं चटुलस फरोहर्त्तनप्रेक्षितानि ॥ ४२ ॥
तस्याः किञ्चित् करभृतमिव प्राप्तवानीराखं
हत्वा नीलं सलिलवसन मुक्तरोधोनितम्बं ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादः पुलिनजघनां को विहातुं समर्थः ॥ ४३ ॥
त्वन्निस्यन्दोच्छसितवसुधागन्धसम्पर्कपुष्यः
श्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः ।
पृष्ठम्:काव्यसंग्रहः.pdf/३८
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
मेघदूताख्यं।