सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
मेघदूताख्यं।

तच स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
सिप्रावातः प्रियतमद्रव प्रार्थनाचाटुकारः ॥ ३३॥
जालोजीर्णैरुपचितवपुः केशसंस्कारधूपैर्
बन्धुप्रीत्या भवनशिखिभिर्दत्तन्मृत्योपहारः ।
हर्म्येषस्याः कुसुमसुरभिषध्वखिन्नान्तरात्मा
त्यक्त्वा खेदं ललितवनितापादरागाङ्कितेषु ॥ ३४ ॥
भर्त्तुः कंठच्छविरितिगणैः सादरं वीक्ष्यमाणः
पुण्यं याया स्त्रिभुवनगुरो र्धाम चण्डेश्वरस्य ।
धूतोद्यानं कुबलवरजो गन्धिभिर्गन्धवत्या
स्तोयक्रीडाविरतयुवतिस्रानतितैर्मरुद्भिः ॥ ३५ ॥
अप्यन्यस्मिन् जलधर महाकालमासाद्य काले
स्थातव्यं ते नयनविषयं यावदभ्येति भानुः ।
कुर्वन् सन्ध्यावलिपटहतां शूलिनः वाघनीया.
मामन्त्राणां फलमविकलं लप्स्यसे गर्ज्जितानां ॥ ३६॥ .
पादन्यासक्चनितरसनास्तत्र लीलावधूतै
रत्नच्छायाखचितवलिभिचामरैः क्लान्त हस्ताः ।
वेश्यास्त्वत्तो नखपदमुखान् प्राप्य वर्षाग्रबिंदून्
आमोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥३७॥
पश्चादुञ्चै र्भुजतरुवनं मण्डलेनाभिलीनः
सान्ध्यं तेजः प्रतिनवजवापुष्परक्तं दधानः ।:
हत्यारम्भे घर पशुपतेरार्द्रनागाजिनेच्छां
शान्तोद्देगस्तिमितनयनं दृष्टभक्तिर्भवान्याः ॥ ३८ ॥