सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
मेघदूताख्यं।

विश्रान्तः सन्ं व्रज नगनदीतीरजातानि सिञ्चन्
उद्यानानां नवजलकणे यूंथिकाजालकानि ।
गण्डस्वेदापनयनरुजा कान्तकर्णोत्पलानां
छायादानक्षणपरिचितः पुष्पलावीमुखानां ॥ २८ ॥
वकः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
सौधोत्संङ्गप्रणयविमुखो मा च भूरुज्जयन्याः |
विद्युद्दामस्फुरणचकितैस्तत्र पौराङ्गनानां
लोलापाङ्गै यदि न रमसे लोचनै वञ्चितोसि ॥ २८ ॥
वीचिक्षोभस्तनितविहगश्रेणिकाचीगुणायाः
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्त्तनाभः ।
निर्विन्ध्यायाः पथि भवरसाम्यन्तरं सन्निपत्य
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ ३०॥
वेणीभूतप्रतंनुसलिला तामतीतस्य सिन्धुः
पाण्डुच्छायातट रुहत रुवंशिभिः शीर्षपर्णैः ।
सौभाग्यन्ते सुभग विरहायस्थया व्यन्नयन्ती
कायें येन त्यजति विधिना स त्वयैवोपपाद्य ॥ ३१ ॥
प्राप्यावन्तीमुदयनकथाकोविदग्रामहड़ां
पूर्वोद्दिष्टामनुसर पुरी' श्रीविशालां विश्शालां ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां.
शेषैः पुण्यै र्हृतमिव दिवः कान्तिमत्खण्डमेकं ॥ ३२ ।
दीर्घीकुर्वन् पटुमंदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोद मैत्रीकषायः ।