पृष्ठम्:काव्यसंग्रहः.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूतास्थ । दग्धारण्येवधिकसुरभिं गन्धमाघ्राय चोर्व्याः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्ग ॥ २२ ॥ अम्भोविन्दुग्रहणरभसांचातकान् वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो वलाकाः । त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कम्यानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ २३ ॥ उत्पश्यामि द्रुतमपि सखे मप्रियायें विवासोः कालक्षेपं ककुभसुरभी पर्व पर्वते से। शुक्लापाजः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्थेत् ॥ २४ ॥ पाण्डु छायोपवनसृतयः केतकैः सूचिभिदैर् नीडारम्भे गृहवलिभुजामाकुलग्रामचैत्याः । त्वय्यासने फलपरिणतिश्यामजम्बूवनान्ताः सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २५॥ तेषां दिक्षु प्रथितविदिशालक्षणां राजधानी' गत्वा सद्यः फलमतिमहत् कामुकत्वस्य लब्ध्वा । तीरोपान्तस्तनितसुभगं पास्यसि स्वादुयुक्तं सभङ्गं मुखमिव पयो वेचवत्याञ्चलोमि ॥ २६ ॥ नीचैरास्यं गिरिमधिवसेस्तत्र विश्रामहेतोस् त्वत्सम्पर्कात् पुलकितमिव प्रौढपुष्यः कदम्बैः । यः पण्यस्त्रीरतिपरिमलोहारिभिर्नागराणाम् उद्दामानि प्रथयति शिलावेश्मभि यवनानि ॥ २७ ॥ Digitzed by Google २२