पृष्ठम्:काव्यसंग्रहः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूतास्वं । श्रध्वकान्तं प्रतिमुखगतं सामुमांञ्चिचकूट स्तुङ्गेन त्वां जलद शिरसा वक्ष्यति वाघमानः । आसारेण त्वमपि शमयेस्तस्य नैदाघममिं सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ १७ ॥ त्वामासार प्रशमितवनोपशवं साधु मू वश्यत्यध्वश्रमपरिगतं सानुमानास्म्रकूटः । न क्षुद्रोऽपि प्रथमंसुद्धतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तयोचैः ॥१८॥ छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस् त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे | नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां मध्ये श्यामः स्तनइव भुवः शेषविस्तारपाण्डुः ॥ १८ ॥ स्थित्वा तस्मिन् वनचरवधूभुक्तकुंजे मुहूर्त तोयोत्सर्गाद् द्रुततरगतिस्तत्पदं वर्त्म तीर्णः । रेवां द्रष्यस्युपलविषमे विंध्यपादे विशीणीं भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ २० ॥ तस्यास्ति नगजमदे र्वासितं वान्तदृष्टिर् जम्बूकुञ्ज प्रतिइतरयं तोयमादाय गच्छेः । अन्तःसारं घन तुलयितुं नानिस: शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णतागौरवाय ॥ २१ ॥ नीपं दृष्टा हरितक पिशं केशर रई रूढैर् आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छं । Digized by Google २१