पृष्ठम्:काव्यसंग्रहः.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ उडवदूतः । सोढव्यस्ते सकलमधुना संभृतंब्रह्मचर्या राजर्षित्वं कलयसि यदि स्वीयवंशानुरूपं । लक्ष्मः श्रोणिः पुरयुवतिषु श्रूयमाणा मवीना किं कुर्यामः म्पृशति हृदयं शाशिता सर्वसेव ॥ ८८ ॥ यान्ति प्रासा नहि वहिरमी नुद्यमानाञ्च गाढं सत्यं गत्यन्तरमपि न मे किञ्चिदस्ति श्वसत्याः । मनं चेतः कुलिशकठिने त्वय्यनुवार्यमेतत् तेनैवाहं भवदनुगतिं सुस्थिता किं करोमि ॥ ८ ॥ किं नो दण्डमहररजनीपक्षिणी पक्षरीत्या स्फीतस्फीतां विरइविपदं साइयम्मामासोः । दत्तो यस्यै न खलु निमिषो दृष्टिविघ्नोपि तस्यै दूरस्थित्यै वितरसि विभो यौगपश्चाद् घुगानि ॥१०॥ स्वामिनेकं वचसि भवतः स्वान्तविश्रान्तमन्यत् कर्मण्यन्यन्मुहुरिदमभिव्यक्तमन्धोपि वेद । भूयो भूयस्तदति मुषिता नाम गृहामि किं ते तिष्ठत्यस्मिन् जगति यदि नो जीवनस्थानमन्यत् ॥८.१ ॥ त्वत्सेवासु स्खलनमभवन्मादृशः कस्य किम्बा सेवाधर्मो गहन इति यन्नीतिनिष्ठाः पठन्ति । तेन त्यागः किमघमुचितो व सङ्कोचहीना पान्यो यच त्वमसि रसिकैरीक्षितो नैष पन्थाः ॥ १२ ॥ पाण्डुक्षामं वपुरिदममी कुन्तलाः लान्तभासो वासोप्येवंविधमिति भिदा भिक्षुकीभिः कुतो नः | higt.red by Google