सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६१
उद्धवदूतः।


निश्वासाग्निर्निपतति न ते काचिदाश्वासवार्ता
कस्मिन्नास्थामुपहितवती जीवितं धारयामि ॥ ७१ ॥
यत् पूर्वेद्युर्गमनदिवसान्मानभङ्गाभिलासी
लक्ष्मीकान्त त्वमपि पतितः पादमूले ममासीः ।
स्पृष्टोऽङ्गुल्या तदपि न मया नापि नेत्रान्तपीतं
चित्ते शैल्यं सविषमिव तन्मामके मग्नमस्ति ॥ ७२ ॥
को जानाति त्वदपहरणक्रूरमक्रूरमाप्तं
कः प्रत्येति त्वमपि सहसा गोकुलं त्यक्ष्यसीति ।
त्यक्ता नायास्यसि पुनरिदं नाथ केनाशुमेयं
मद्दुदेर्वान्यहह सुमहादुर्घटं साधयन्ति ॥ ७३ ॥
भूयस्त्वञ्चेन्मिलसि महिलासंप्रदायं विहाय
द्वाभ्यां दृग्भ्यां युगपदपि तद्रूपमादौ ग्रहीष्ये ।
आश्लिष्य त्वामहह तदनु स्पन्दसंवन्धहीना
कल्पक्रूरामपि निमिषतां यामीनीं यापयिष्ये ॥ ७४ ॥
यात्राकाले कथमपि चलनन्दपत्नीकराज
व्यस्तन्यस्ते न च सुरुचिरं रोचनाचित्रकेन ।
आशीर्दूर्वाक्षतचितमनुस्मर्यमाणं सुखं ते
सर्वक्लेशापहमपि जगन्नाथ मर्म छिनत्ति ॥७५॥
न स्मर्त्तव्यस्तदयमदयः कर्हिचिद्वर्हचूडो
निश्चित्येति स्पृहयति मनो यावदर्थान्तराय ।
किं ते वैरं विहितमवरे कृष्ण कृष्यन्निवान्तर्
धारावाहिस्मरणपदवीं गाहसे तावदेव ॥ ७६ ॥