पृष्ठम्:काव्यसंग्रहः.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उड़वदूतः । निश्वासाग्निर्निपतति न ते काचिदाश्वासवार्ता कस्मिन्नास्थामुपचितवती जीवितं धारयामि ॥ ७१ ॥ यत् पूर्वेयुर्गमनदिवसान्मानभङ्गाभिलासी लक्ष्मीकान्त स्वमपि पतितः पादमूले ममासीः । स्पृष्टोऽङ्गुल्या तदपि न मया नापि मेचान्तपीतं चित्ते शैल्यं सविषमिव तम्मामके मनमस्ति ॥ ७२ ॥ को जानाति त्वदपहरणक्रूरमक्क्रूरमाप्तं कः प्रत्येति त्वमपि सहसा गोकुलं त्यक्ष्यसीति । त्यक्ता नायास्यसि पुनरिदं नाथ केनाशुमेय महूदैर्वान्यहइ सुमहादुर्घटं साधयन्ति ॥ ७३ ॥ भूयस्त्वञ्चेन्मिलसि महिलासंप्रदाय विज्ञाय दाभ्यां हृग्भ्यां युगपदपि तद्रूपमादौ ग्रहीष्ये । आश्विष्य त्वामहह तदनु स्पन्दसंवन्धहीना कल्पक्रूरामपि निमिषतां यामीनों यापयिष्ये ॥ ७४ ॥ यत्राकाले कथमपि चलनन्दपलीकराज व्यस्तन्यस्ते न च सुरुचिरं रोचनाचिषकेन । आशीर्वाचतचितमनुस्मर्यमाणं सुखं से सर्वकशापहमपि जगन्नाथ मर्म छिनति ॥७५॥ न स्मर्तव्यस्तदयमदयः कर्हिचिदईचूडो निचित्येति स्पृहयति मनो यावदर्थान्तराय | किं ते वैरं विहितमवरे कृष्ण कृष्यनियान्तर् धारावाहिस्मरणपदव गाइसे तावदेव ॥ ७६ ॥ २ उ Digitized by C ३६१ Google