पृष्ठम्:काव्यसंग्रहः.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उडवदूतः । प्रेम प्रौढं किमपि जनयन्नव्यलोकाञ्च मुञ्चन् चवं कथमपयशो घोरमङ्गी करोति ॥ ६० ॥ अस्मत्प्राणास्तव पदनखच्छायनीराजनाय तं यातोभूः सपदि यदि ते यान्ति को या विषादः । एवं किन्तु व्यथयति मनश्छद्ममा किङ्करीणां प्राणाविन्ये यदुपतिरितित्वहता किं वदन्ती ॥ ६१ ॥ सङ्कोचो य स्तव गुरुजने यच पौराङ्गनास व्यक्तीभूतं तदुभयमभूत् कुजिकोपग्रहेण । अस्मानेव क्षिपसि सहसा देव दूराहवीयः कर्तुं यः पारयति स कृती किं करोत्येवमेव ॥ ६२ ॥ एतस्मादप्यधिकमधिकं यत्तदस्मासु कुर्या न स्वप्नेपि त्वयि विसदृशं चिन्तयत्येतदन्तः । दन्ते कृत्वा तृणमिति महासभ्यमभ्यर्थयामि स्वामियेवं नहि मधुपुरीं क्षीणमध्यां विद्ध्याः ॥ ६३ ॥ द्रोणीरादौ मलयजयुता शोचिताः सच्चिनुध्वं वापीर्निग्री कुरुत शतशो लालशैवालपूर्णा । सख्यं सख्यो यदि यदुपतौ पातनीयं तदेति प्रेष्यो वश्यो मिलति यदि तम्माथुरोर्वेदयिष्ये ॥ ६४ ॥ सौभाग्येन ब्रजकुलवधूसार्थसीमन्तरत्नं या कंसारेरतिगुणवती स्कन्धमप्यारुरोहे । सेयं राधा किमिदमिति मामुद्दिशन्त्यङ्गुलीभिः लोकानोच स्वतितनयनाः शाखिनो रोदयन्ति ॥ ६५ ॥ Google ३५९ Digl: red by