पृष्ठम्:काव्यसंग्रहः.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उड्डवदूतः । दत्तस्वप्नो भवसि यदि मे दर्शनीयः कदाचिद् वपीडं मधुरमुरलीधाम तवाम दध्याः । अस्मादन्यद् यदि वितनुषे दीयते दिव्यमुद्रं पादस्पर्शः पुरम्हगदृशां दुर्लभस्तत्तव स्यात् ॥ ४४ ॥ मद्भावेन स्थिरमथ चरं भावयन्त्यो भवत्यः सन्तुस्यन्तु त्वमिति वहुधा सत्वमस्मानवादीः । आख्यातव्यं किमिह भवतः किञ्चिदूनो नवासौ नैवास्माकं मदयति मनो नामनीलाम्बरोपि ॥ ४५ ॥ व्यक्तीभूतः स्वयमयमसि स्वाघनीयः समृड्या चरब्बीषु त्वं कथमि परोतोषमस्मासु यायाः । तत्तद्वन्धुप्रकरपुरतस्तष कापि चिवका धृत्वा यत्त्वामधिनिवसनं नाथ निम्नी चकार ॥ ४६॥ गव्यस्तेन प्रथममुदभूवत्सपालञ्च पश्चात् तकेदानों तदनु तदनु छिद्रनौकर्णधारः । लुण्ठाको भूदय कुलवधूजातिजीवार्थसाथ धिग्धातारं भवति निहितो येन भूचक्रभारः ॥४७॥ भक्तिप्रीतिप्रणयसहित मानदम्भाद्यपेतं चेतोस्माकं गुणवदगुणं गोदु देहमेतत् । विक्रीतं ते युगपदुभयं स्वीकृतञ्च त्वयाथो हासि त्यजसिच वपुर्नाथ कोयं विचारः ॥४८॥ यत्राधर्मः प्रसवतितरां यत्र भूयाननथ यजाकामः सपरमुदयी यत्र ते नास्ति मोक्षः । Dighted by Google