पृष्ठम्:काव्यसंग्रहः.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उडवदूतः । दघ्नः सिद्धौ व खलु मथनं मन्यने क्कोपयोगस् तक्रादीनामिति गतिरभूदय गोधुषु ॥ २७॥ तन्त्र क्षौणीखुरविलिखनं वप्रभङ्गो न शृङ्गैर नैवास्प नवजलमुच घोरहम्बानिनादः । कामोन्मादैरुदयति न वा सोपसर्या संपर्या नामावाचा मधुपुरपथादम्बदालोकयन्ति ॥ २८ ॥ बत्सालोकस्मरणसुलभप्रसवसावनीयं धूलीजालं नयनसलिलैरभ्वसु जावयन्त्यः । त्वामन्विष्य ब्रजपुरसरित्तीरभूषु भ्रमन्यः सद्योजातानपि सुरभयो नार्भकान् पाययन्ति ॥ २८ ॥ निप्रेमाणो ललितयवसश्यामसी मन्थरण्ये न्यस्य न्यस्य त्वदनुसृतये चक्षुषी दिक्षु दिक्षु । जिभ्रन्ति व्यथितमनसः किश्व सिञ्चन्ति वास्पैः क्रीडानीपं तव यदुपते वत्सला वत्सतर्यः ॥ ३० ॥ भास्मत्कन्याकमलविपिनं कर्णिकाशेषमेतद् वृन्दारण्यद्रुमकिशलयाः पाण्डपत्री भवन्ति । शस्यैः पङ्क्तैः पिहितमभितस्त्वद्दिलासानुकूलं मूलं धत्ते स तब कमलाकान्तकलीकदम्बः ॥ ३१ ॥ ये वे गोवर्धनधर तब सिग्धगम्भीरघोषैः के कावाचस्तिमितमयनास्लेनिरे ताण्डवानि । अद्य प्रादृड्ङ्घमघनघटागर्जितेपि महत्ते भुप्रयीवाः किमपि महि ते पुच्छमुलासयन्ति ॥ ३२ ॥ २ ट na Saaby Google