पृष्ठम्:काव्यसंग्रहः.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ उच्चवदूतः । ॥ २२ ॥

गोरक्षत्वं समजनि यदा तावकीनं तदैव स्वच्छन्दत्वं तव तिरयितुं नाथ माभूम शक्ताः । वश्यः कस्य त्वमथ जगतानीशिता किन्तु वाचा माविस्कारैरदयहृदयग्रन्थिमुद्घाटयामि किन्ते जन्मान्तरमुपगतं पारसञ्चारकाले धौतं नयाः किमिदमथवा कार्मणीमाथुरीखां । विस्मर्तव्यं यदिह न तमौ यत्र वहः पशोर प्यत्र प्रेमि क्षणकतिपयैर्नाथ निर्लेपकोऽसि ॥ २३ ॥ कर्ता कृष्णो नियतमधुना गोकुलं राजधानी बन्धुभ्योपि प्रगुणममुना गोदुशे माननीयाः । काचिन्नोपी भवति महिषीत्युक्तमग्रे नवा कैः तदग्धेन तु पितृवनप्रेतवत् कारिताः स्मः ॥ २४ ॥ नीतेनामन्यपि च भवतः प्रसुवाना स्तनाभ्यां विभ्रत्यके पुलकिमि भवद्देखुवेषप्रतोदान् । सोरस्ताडं न वतु तवाक्रन्दमम्बा कथं वा यस्मादद्य प्रशमितपरी राजराजेश्वरोसि ॥ २५ तैरुत्साहैः क्व खलु चलितं कुच ते नर्मवादाः कण्ठो भग्नः करुणकरुणैस्तात कृष्येति शब्दैः । पर्वस्वन्तः किमपि विरुञन्नाममाजानुकारी विच्छेदस्ते तमपि कृतवान् नन्दमस्पन्दमेव ॥ २६ ॥ दोहः प्रायो न भवति गवां दोहनं षेत्रपाकः क्षीराणां स्यात् स भवति यदा दुर्लभं तदभित्वं । Digized by Google 1