पृष्ठम्:काव्यसंग्रहः.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उहवदूतः । गोपीवन्धोरनवधिकृपादाज्यदाक्षिण्यसिन्धोर् आदेशेन प्रणयपटुना प्रापितं गोकुलाय । गोधुगृहन्दव्यसनविसरालोकदुःस्वं रहस्यं मध्येकृत्य प्रियसहचरीमुहवं काचिदूचे ॥ १ ॥ कत्वं साधो कुवलयदलश्याम विस्तीर्णदृष्टे दृष्टे सद्यो भवति भवति स्निग्धमत्यन्तमन्तः । किम्बा प्रश्नेरह मथुरानाथभुक्तं तदेतत् यक्ते मौलौ कनककपिशं सौरभोद्वारि वासः ॥ २ ॥ तत् त्वं तत्त्वं मधुपुरपतेर सन्धलोभ्यप्रसादस् तडिश्रम्भस्थलमतिमइब्रेह सन्देहलेशः । वक्षस्येतन्मम च किमिदं कथ्यते दर्श्यते वा जातं यस्मादखिलमधुना हन्त हास्यास्पदं नः ॥ ३ ॥ प्रस्थानं ते भवतु भगवन्त्रत्र वाप्यन्यतो वा गम्भीरत्वं भजतु स भवानित्यमुत्तानतां वा । यद्दा तदा भवतु विधिना वञ्चितेयं वराकी यते विज्ञापयति निमिषं पातनीयोज कर्णः ॥ ४ ॥ कैषा योषित् प्रकृतिचपला पामरी कातरा च ज्यायान् यातो यदुकुलपतेर्वलभत्वं क्व च त्वं । Digized by Google+ 1 1