एतत् पृष्ठम् परिष्कृतम् अस्ति
३४७
उद्धवसन्देशः।
भूयोरूपाश्रयपदसरोजन्मनः स्वामिनोयं
तस्योद्दामं वहतु हृदयानंदपूरं प्रबन्धः ॥ १३० ॥
श्रीदामाद्यैः शिशुसहचरैर् बाल्यखेलामकार्षीत्
गोपालीभिः सह युवतिभीरासकेलिं चकार ।
दुष्टान् दैत्यानपि बहुतरान् हेलया यो जघान
स श्रीकृष्णस्तरुणकरुणस्तारयेद्वो भवाब्धिं ॥ १३१ ॥
इत्युद्धवसन्देशस्य प्रवन्धः समाप्तः ॥