सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४०
उद्धवसन्देशः।


येषां नव्यः किशलयगणो रागिणं माञ्चकार ।
भ्राम्यद्भृङ्गावलिषु भवता तेषु शस्ताशिषां मे
वृन्दं वृन्दावनविटपिषु प्राज्ञ विज्ञापनीयं ॥ ९२ ॥
मत्ता वंशीनिनदमधुभिस्तूर्णगास्तर्णकानां
या मुञ्चन्त्यः प्रणयमभितः सस्रुरस्रुस्रुताक्ष्यः ।
तासामुच्चैर्मम परिपठन् कामतो नामधेयं
क्षेमं पृच्छेस्त्वमथ निचये नीचकैर्नैचकीनां ॥ ९३॥
डिम्भव्यूहं हृतवति विधौ तत्तदाभस्तदाहं
स्तन्यं यासां मधुरमधयं वत्सरं वत्सलानां ।
वारं वारं मम नतिगणान् विज्ञ विज्ञापयेथा
नम्रस्तासां जठरपशुपोमण्डलीनां पदेषु ॥ ९४ ॥
आमोदं मे मधुर दधिरे मामहंपूर्विकाभिर्
दूरे यान्तं कुसुमितवनालोकनाथ स्पृशन्तः ।
श्रीदामाद्याः प्रियसहचरा हन्त मन्नामतस्ते
पौनः पुण्यान्निपुन भवता तुङ्गमालिङ्गनीयाः ॥ ९५ ॥
हत्वा रङ्गस्थलभुवि मया धीर कंसं नृशंसं
काकून्मिश्रैः शपथशतकैर् गोकुलं प्रेषितस्य ।
आनम्रस्त्वं चरणयुगलं वल्लवेन्द्रस्य कामं
नामग्राहं मम गुणनिधे वन्दमानो दधीथाः ॥ ९६ ॥
तां वन्देथा मम सविनयं नामतः क्षामगाचीन्
आक्रोशन्तीं खलनरपतिं साङ्गुलीभङ्गमुच्चैः ।
अन्तश्चिन्ताविलुलितमुखीं हा मदेकप्रसूतिं