पृष्ठम्:काव्यसंग्रहः.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उद्धवसन्देशः । का आनीते यदिह खलता चातुरी दीक्षितेन प्रक्षेत्तव्यं शिरसि कुलिशं गान्धिनीनन्दनेन ॥ ८१ ॥ न क्षोदीयानपि सखि मम प्रेमगन्धो मुकुन्दे कन्दन्तीं मां मिअशुभगतास्थापनाय प्रतीहि । खेलइंशीवलयिनमनालोक्य तं वक्त्तविम्बं ध्वस्तालम्बा यदहमहह प्राणकीटं विभर्मि ॥ ८२ ॥ पाः सखि नवनवैः कुर्वती प्राणवन्धं जात्या भीरुः कति पुनरहं वासराणि क्षयिष्ये । एते वृन्दावनविटपिनः स्मारयन्तो विलासाम् उत्फुल्लास्ताम्मम किल वला मर्म निर्मूलयन्ति ॥ ८३ । सा विश्राम्यन्मनसिजधनुर्विवमोदोधविद्या चिल्लीवल्लभ्रमिमधुरिमोदामसम्पद्भिरिष्टा । एतामार्तं मम शमयिता स्मेरता सराङ्गी प्रेमोत्तुङ्गाः किमु मुरभिदो भङ्गुरापाङ्गभङ्गी ॥ ८४ ॥ कामं दूरे सहचरि वरीवर्ति यत् कंसवैरी नेदं लोकोत्तरमपि विपद्दुर्दिनं मे दुनोति । आशाकीलो हृदि किल धृतः प्राणरोधी तु यो में सोयं पीडां निविडवडवावहितीब्रस्तनोति ॥ ८५ ॥ तच स्फीताधरमधुभरे शीतलोत्सङ्गसङ्गे सौन्दर्येणोलसितवपुषि स्फारसौरभ्यपूरे । नर्मारम्भस्थपुटितवचःकन्दले नन्दसूनौ मोदिष्यन्ते मम सखि कदा हन्त पञ्चेन्द्रियाणि ॥ ८६ | Digitzed by Google 1