सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३८
उद्धवसन्देशः।

का जानीते यदिह खलता चातुरी दीक्षितेन
प्रक्षेत्तव्यं शिरसि कुलिशं गान्धिनीनन्दनेन ॥ ८१ ॥
न क्षोदीयानपि सखि मम प्रेमगन्धो मुकुन्दे
क्रन्दन्तीं मां निजशुभगतास्थापनाय प्रतीहि ।
खेलद्वंशीवलयिनमनालोक्य तं वक्रविम्बं
ध्वस्तालम्बा यदहमहह प्राणकीटं विभर्मि ॥ ८२ ॥
आशापाशैः सखि नवनवैः कुर्वती प्राणवन्धं
जात्या भीरुः कति पुनरहं वासराणि क्षयिष्ये ।
एते वृन्दावनविटपिनः स्मारयन्तो विलासान्
उत्फुल्लास्तान्मम किल वलान्मर्म निर्मूलयन्ति ॥ ८३ ।
सा विश्राम्यन्मनसिजधनुर्विभ्रमोद्वोधविद्या
चिल्लीवल्लिभ्रमिमधुरिमोहामसम्पद्गरिष्टा ।
एतामार्तिं मम शमयिता स्मेरता सङ्कराङ्गी
प्रेमोत्तुङ्गाः किमु मुरभिदो भङ्गुरापाङ्गभङ्गी ॥ ८४ ॥
कामं दूरे सहचरि वरीवर्ति यत् कंसवैरी
नेदं लोकोत्तरमपि विपद्दुर्दिनं मे दुनोति ।
आशाकीलो हृदि किल धृतः प्राणरोधी तु यो मे
सोयं पीडां निविडवडवावहितीब्रस्तनोति ॥ ८५ ॥
तत्र स्फीताधरमधुभरे शीतलोत्सङ्गसङ्गे
सौन्दर्येणोल्लसितवपुषि स्फारसौरभ्यपूरे ।
नर्मारम्भस्थपुटितवचःकन्दले नन्दसूनौ
मोदिष्यन्ते मम सखि कदा हन्त पञ्चेन्द्रियाणि ॥ ८६ |