पृष्ठम्:काव्यसंग्रहः.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ उड्डयसन्देशः । अध्यारूढो जिगमिषुरसौ स्वन्दनं नन्दसूनुः ॥ ७० ॥ आसीदायें पशुपपटलीमन्तरा नान्तरायः प्रापुः पापा नच विकलतां पादभङ्गैस्तुरङ्गाः । ध्वस्तो माभूदयमपि मनाक् स्यन्दने चक्रवन्धः सत्यं गन्ता मधुपुरमसौ हन्त किं केशिहम्मा ॥ ७९ ॥ आराग्रे कलय नृपतेर् दूत निर्धूतला सज्जा तन्वो किमपि विषमं साहसं कर्तुमिछुः । यानाद्यावडिसृजसि पुरञ्चन्द्रहासं म कृष्णं इस्तात्तावद्दिसृजति सखी चन्द्रशसं न कृष्णं ॥ ७२ ॥ मुग्धे पश्य क्षणमपि हरिं नेत्रमुग्मीलयन्ती मोहेन त्वं विरचय मुहुर्नात्मनो वश्यमानि | शृन्वन् काकूत्करमपि पुरो हन्त सीमन्तिनीनां.. क्रूरस्तू विनुदति रथं दूरमक्रूरनामा ॥ ७३ ॥ पश्य क्षामोदरि तब मुखालोकजन्मा हि शोको वारं वारं हरिनयनयोर्वाष्यमन्तस्तनोति भावदाजि त्फुरदुरुसुरोत्तानितानां वितामो धूलीनान्तु श्रयति विसरद्वेष मिथ्याकलङ्गः ॥ ७४ ॥ कृष्णं मुष्यन्नकरुणवलानोपनारीवधार्थी

higlered by Google

मा मर्यादां यदुकुलभुषां भिन्धिरे गान्धिनेयः । इत्युतुजा मम मधुपुरे याचया तच तासां. विचस्तानां परिवबसिरे वल्लवीनां विलायाः ॥ ७५ ॥ दशभिः कुलकं |