सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३५
उद्धवसन्देशः।

भूयांसो मे विमलदृशदां कल्पिता मण्डलीभिः ।
वन्धायोद्यत्तरलतरसां तर्णकानां निखाताः
कीला: कूलस्थलवलयिनो भान्ति पद्माकराणां ॥ ६५ ॥
नो जानीमः कठिनविधिना मद्विधानां कपाले
गोपालीनां किल विलिखिता कीदृशी वर्णलेखा ।
यः सन्ध्यायां सुमुखि मिलितो गोकुले राजदूतः
सोयं कर्णे निभृतनिभृतं माधवं वावदीति ॥ ६६ ॥
एष क्षत्ता ब्रजनरपतेराज्ञया गोकुलेस्मिन्
वाले प्रातर्नगरगतये घोषणामातनोति ।
दुष्टं भूयः स्फुरति च वलादीक्षणं दक्षिणं मे
तेन स्वान्तं स्फुटति चटुलं हन्त भाव्यं न जाने । ६७
प्रातर्यात्रां नरपतिपुरे तथ्यमाकर्ण्य शौरेर्
आयामाय प्रियसखि मया यामिनी प्रार्थिताभूत् ।
पश्य क्षिप्रं प्रथितलघिमा पापिनीयं प्रभाता
जायन्ते हि प्रचुरतमसो नानुकूलाः परेषु ॥ ६८॥
यावद्व्यक्तिं न किल भजते गान्धिनेयानुबन्धस्
तावन्नत्वा सुमुखि भवतीं किञ्चिदभ्यर्थयिष्ये ।
पुष्पैर्यस्या मुहुरकवरं कर्णपूरान्मुरारेः
सेयं फुल्ला गृहपरिसरे मालती पालनीया ॥ ६९ ॥
नावैषि त्वं पतितमशनिं मूर्ध्नि निर्मीयमाना
मेनांकस्ते सखि शिखरिणीं हन्त पाता हतासि ।
तूर्णं मुग्धे वहिरनुसर प्राङ्गणं गेहमध्याद्