पृष्ठम्:काव्यसंग्रहः.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उच्चवसन्देशः । त्वं चोनिद्रा क्षपयसि निशा रोदयन्ती वयस्या माने कस्ते नवमधुरिमातन्तुभालोकयामि ॥ ५४॥ महक्लाम्मोरुहपरिमलोमत्तसेवामुवन्धे पत्युः कृष्णभ्रमर कुरुषे किन्तरामन्तरायं । तृष्णाभित्वं यदि कलस्तव्यग्रचित्तस्तदाग्रे पुष्पैः पाण्डुच्छविमविरलैर् याहि पुन्नागकुच्वं ॥ ५५ ॥ श्रषायान्तं चलमपि हरिं लोकयन्ती वलिष्ठां त्वामालम्ब्य प्रियसखि घने नास्मि कुने मिलीना । अस्मान्मुग्धे हृदयनिहितादद्य पीताम्बराते शक्तो नान्यः कुचपरिचये मत्पुरो मा व्यथिष्ठाः ॥५६॥ मां पुष्पानामवचयमिषाहूरमानीय कुष् स्मित्वा धूर्ते किमिति रभसादुञ्जकैर् गायसि त्वं । सङ्घामन्तर्नरचय मुधा तम्धि गीतं तनोमि स्फीतं वृन्दावनभुवि मुहुः कृष्णसारोत्सवाय ॥ ५७ ॥ वारं वारं व्रजसि सलिलच्छद्मना पद्मवन्धोः पुत्र ज्ञातस्तव सखि रसः पुण्डरीकेक्षणोसौ । चेतः काम्या भवति विशदासारसाली न वामे तेन स्मेरं मुहुरभिलषाम्यच्युतं रक्तपद्मं ॥ ५८ ॥ पश्याम्यन्तर्विहितवसतिं त्वामरालाङ्गमानाम् चत्र क्षीरे स्पृहयसि कथं कृष्णकण्ठग्रहाय । साधु ब्रूघे सखि मदकलो मां शिखण्डोज्वलोयं कुने दृष्ट्वा भुजगदमनोहामदर्पोभ्युपैति ॥ ५८ ॥ Google Digi: zed by ३३३